सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 127, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 127

ऽध्यायः ] बौधायनीयं ६७
हंसमुख्यौ पश्चिमपार्श्वे प्रागग्रे द्वे हंसमुख्यौ । तासां मध्ये दक्षिणोत्तराग्रे अन्तर्दीर्घपार्श्वे
पादेष्टके । चतुरस्रदक्षिणोत्तरपार्श्वयोर्मध्यभूतान्तरालयोर्बहिर्दीर्घपार्श्वे दक्षिणोत्त-
राग्रे द्वे पादेष्टके । एवं अष्टेष्टकं दीर्घचतुरस्रं भवति ॥ ४२ ॥
हंसमुख्यौ प्रतीच्यौ पुच्छाप्ययेऽर्धपदेनात्मनि विशये । तयो-
रवस्तादभितस्तिस्रः पादेष्टकाः प्राङ्मुख्योरुपदध्यात् । पुच्छस्याव-
स्तात् पञ्चदश पादेष्टका व्यतिषक्ता उपदध्यात् ॥ ४३ ॥
प्रतीच्याविति । प्रत्यङ्मुखे इत्यर्थः । पुच्छाप्यय इति । पुच्छात्म-
सन्धवित्यर्थः । अर्धपदेनेति । मुखं सन्नतांशो यथा पुच्छे इतरांशश्च
आत्मनि भवति तथोपदध्यादित्यर्थः । आत्मान्तर्गते विशये एकदेशे इत्यर्थः ।
विशयशब्दस्यैकदेशार्थत्वमापस्तम्बेनोक्तम् । अभित इति । हंसमुख्यो-
र्दक्षिणत उत्तरतः मध्यतश्चेत्यर्थः । पुच्छस्येति । अवस्तादिति । अग्र
इत्यर्थः ॥ ४३ ॥
हंसमुख्याविति । पुच्छात्मसन्धौ द्वे हंसमुख्यौ प्रत्यगग्रे । अर्धपदमात्रेणोप-
लक्षितो योऽवयवः स आत्मनि यथा भवति तथा उपदध्यात् । विशयशब्दार्थमाह
आपस्तम्बः । अर्धमात्मनि अर्धं पक्षे इति । तत्र अर्धशब्दस्योभयत्र स्थित्युप-
लक्षणत्वाद् एकदेशोऽपि गृह्यते । तयोरिति । तयोर्हंसमुख्योः पश्चाद् अभितो दक्षिण-
तश्चोत्तरतश्च प्रागग्राः पादेष्टकास्तिस्र उपदध्यात् । हंसमुख्योः पश्चात् प्रत्यग्दीर्घ-
पार्श्वीः प्रागग्राः हंसमुख्योरग्राभ्यां संहिता उपदध्यादित्यर्थः । पुच्छस्येति । पुच्छाग्रे
[L20