सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 123, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 123

ऽध्यायः ] बौधायनीयं ६३
सर्वाण्यवाञ्चमक्ष्णयापच्छिन्द्यादर्धान्युद्धरेत् । एवं सारत्निप्रादेशः
सप्तविधः संपद्यते ॥ ३६ ॥
पक्षो द्वादशेति । प्राक् प्रत्यक् दशपदव्यासं दक्षिणोत्तरं द्वादशपदायामं
दीर्घचतुरश्रं विहृत्यापरस्याः करण्याः मध्यादारभ्य पुरस्तात् प्रक्रमत्रयं
मित्वा तत्र शङ्कुं निहत्य श्रोणिसक्त्योः शङ्कुद्वयं निहत्य शङ्कूनामुपरि
स्पन्द्यां नियम्यान्तःस्पन्द्यं परिच्छिन्द्यात् । प्राञ्चं दध्यादिति । अपरिच्छिन्नं
पुरस्तात् आदध्यात् । स निर्णाम इत्यर्थः । पक्षाग्रयोरिति । चतुरश्राणि
कारयेदित्युक्त्या पक्षाद् बहिरिति ज्ञायते । अनूचीनानि निरन्तराणी-
त्यर्थः । अर्धान्युद्धरेद् दक्षिणपक्षाग्रेषु आग्नेयदलानि उत्तरपक्षाग्रेषु
ऐशान्यदलानि त्यजेत् । एवमिति । एवञ्च सति सारत्निप्रादेशः सप्तविधः
संपद्यते ॥ ३६ ॥
पक्षविति । आत्मदक्षिणपार्श्वमध्यसङ्गत उदगायतं । एवं त्रिंशत् चतुर्थ्यो
भवन्ति । पक्षमध्यनमनमाह—तस्येति । पक्षापरान्तमध्याद् आरभ्य प्राञ्चं षट्पदानि
प्रक्रम्य शङ्कुं निहन्यात् । श्रोण्योरिति । पक्षापरसक्त्योरित्यर्थः । अथैनामिति । एनां
चिह्नान्तरालभूमिं सर्वत्र स्पन्द्यया वेष्टयेत् । अन्त इति । अन्तःस्पन्द्यं स्पन्द्यान्तर्गतं
क्षेत्रमथोद्धृत्य पक्षस्य पुरस्तात् प्राञ्चं प्रागग्रमुपदध्यात् । एतदुक्तं भवति । पक्ष-
पूर्वान्तमध्यादारभ्य प्राञ्चं षट्पदं प्रक्रम्य लक्षणं कृत्वा तस्मिन् पाशौ प्रतिमुच्य
पक्षपूर्वसक्त्या निपातयेदित्यर्थः । स इति । य एष उक्तः स निर्णामः निर्गमनम् ।
अर्थनिर्देशोऽयं न संज्ञा अपनाम इत्युत्तरत्र ( ३।५४ ) वक्ष्यमाणत्वात् । एतेनेति ।
निर्णाम इत्यस्य प्रदर्शनार्थत्वात् । दक्षिणस्य पक्षस्य यदुक्तं द्वादशपदायाम इत्यादि
तत्सर्वं परिगृह्यते । अन्यथासम्भवात् । पक्षाग्रयोरिति । पक्षाग्रयोर्दक्षिणत उत्तर-
तस्ताभ्यां संश्लिष्टानि सर्वतस्त्रिंशदङ्गुलानि पञ्चचतुरस्राणि प्रागपवर्गाणि कृत्वा
अवाञ्चं अवाग् यथा भवति तथा अक्ष्णया अपच्छिन्द्यात् । अर्धान्युद्धरेत् ।
एवं उभयत्र पञ्च चतुर्थ्यो भवन्ति ।
एवमिति । एवं पक्षात्मशिरःपुच्छेषु विभक्तेषु अरत्निक्षेत्राभ्यां प्रादेशक्षेत्रेण सह
सप्तविधः पुरुषः संपद्यते । अर्ध्राष्टमपुरूषोऽग्निर्भवतीत्यर्थः । एवं सर्वत्र ।
अत्र आत्मनि सार्द्धपञ्चत्रिंशत् चतुर्थ्यः । शिरसि अर्धपञ्चमाः । पुच्छे
पञ्चदश । दशसु पत्त्रेषु पञ्च । पक्षयोः षष्टिः । एवं विंशत्यधिकं शतं षोडश्यः ।
पुरुषक्षेत्रे षोडश षोडश्यः शेरते । एवं सर्वत्र द्रष्टव्यम् ॥ ३६ ॥