सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 121, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 121

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
तृतीयोऽध्यायः ] बोधायनीय ९१
इदमपि तासामर्थ्या इत्युक्तानामेव आकृत्यन्तरविधानम् । ते पूर्वोक्ते चतुर-
स्त्रपाद्ये यथा अध्यर्धपदपार्श्वेन संश्लिष्टे स्यातां तथा कारयेत् । पञ्चकोणोऽयम् ।
अस्या हंसमुखीति संज्ञा । एवं पञ्चकरणानि । प्रथमेन त्रिचत्वारिंशत्त्रिशतम् ।
द्वितीयेन षट्पञ्चाशत्त्रिशतम् । तृतीयेन अष्टषष्ट्यधिकं शतद्वयम् । चतुर्थेन
अष्टादश । पञ्चमेन पञ्चदश ।
तत्र चोडानाकसदष्टौ पाद्या द्वे अर्ध्ये । एवं सहस्रमिष्टकाः ॥ ३१ ॥
अथाग्निं विमिमीते ॥ ३२ ॥
सार्धसप्तपुरुषप्रमाणस्यासिक्षेत्रस्य वक्रपक्षश्येनाकारतया मानप्रकारं
दर्शयति—अथाग्निमिति ॥ ३२ ॥
अथाग्निमिति ॥ ३२ ॥
आत्मा द्विपुरुषायामो दशपदन्यासः । तस्य दक्षिणादं-
सादुत्तरतोऽध्यर्धप्रक्रमे लक्षणं करोति । एवमपरतः । तयोरुपरिष्टात्
स्पन्द्यां नियम्यांसमपच्छिन्द्यात् । एतेनेतरासां स्रक्तीनामपच्छेदा
व्याख्याताः । स आत्मा ॥ ३३ ॥
आत्मेति । द्विपुरुषायाम इति । प्राक्प्रत्यक् अष्टप्रक्रमदीर्घम्, उत्तर-
दक्षिणा पञ्चप्रक्रमविस्तारं चतुरश्रं कृत्वा । दक्षिणादिति । दक्षिणांसे
दक्षिणस्रक्तिमारभ्य उत्तरतः सार्धप्रक्रमं मित्वा तत्र शङ्कं निहत्य । एव-
मिति । एवं तस्या एव स्रक्तेरपरतः शङ्कं निहत्य तयो रज्जुं नियम्य
बहिःस्पन्द्यं वर्जयेदित्यर्थः । एतेनेतरासामिति । एवमन्यासां तिसृणां अपच्छेदा
द्रष्टव्याः । स इति । चतसृषु स्रक्तिषु अपच्छिनावशिष्टांश आत्मे-
त्यर्थः ॥ ३३ ॥
आत्मेति । दशपदेति । एवं चत्वारिंशत् षोडश्यो भवन्ति । तस्येति । दक्षिणा-
दंसादारभ्योत्तरतः अध्यर्धप्रक्रमे लक्षणं करोति । अपरत् इति । दक्षिणादंसादेवारभ्य
पश्चादपि अध्यर्धप्रक्रमे लक्षणम् । तयोरिति । तयोः शङ्कोरुपरिष्टात् स्पन्द्यां नियम्य
अनुस्पन्द्यं अंसमपच्छिन्द्यात् । एवं सार्धपादा चतुर्थी निरस्ता भवति । एतेनेति ।
एतेन अपच्छेदनप्रकारेण । इतरासां आत्मनः श्रोण्यंसानाम् । अपच्छेदा
Nepal Sanskrit University, Balmeeki Campus, Kathmandu