बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 119, कुल 366 में से
संदर्भ में पढ़ेंध्यायः ] बौधायनीयं ८६
दिति व्याख्यातम् । पूर्वस्मिन्निति । पूर्वस्मिन्ननीके आत्मनः पूर्वान्तेपूर्वी-
पहितानामन्तराले पञ्चार्धेष्टका उदीचीरुपदध्यात् ॥ २४ ॥
अपरस्मिन् प्रस्तार इति । आत्मश्रोण्यंसयोः । तासामिति । दक्षिणांसप्रभृति
प्रदक्षिणमुत्तरतः पश्चात्, पुरस्ताद् उत्तरतः दक्षिणतः पुरस्तात् पश्चात् दक्षिणत
इति । एवं षोडश । पूर्वस्मिन्ननीक इति । आत्मपूर्वान्ते पूर्वोपहितान्तराले पञ्च
अर्धेष्टका उदीचीः ॥ २४ ॥
पक्षाग्रयोस्तिस्रस्तिस्रोऽध्यर्धा उदीचीः । तासामन्तरालेष्वेकै-
कामर्धेष्टकां प्राचीम् ॥ २५ ॥
पक्षाग्रयोरिति । पक्षाग्रयोः दक्षिणोत्तरयोः । पक्षाग्रयोस्तिस्रस्तिस्र
उदगायता अध्यर्धेष्टकाः पार्श्वयोरेकैकां मध्ये चैकामुपदध्यात् । तासा-
मिति । तासामन्तरालेषु एकैकस्मिन् पक्षे द्वे द्वे अर्धेष्टके प्रागायते उप-
दध्यात् ॥ २५ ॥
पक्षाग्रयोरिति । मध्ये पार्श्वयोरुदगायताः । तासामिति । एकैकस्मिन् पक्षे द्वे द्वे
पक्षाग्रसंगते प्रागायते ॥ २५ ॥
शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ २६ ॥
एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां-
श्चिकीर्षेद् ॥ २७ ॥
शेषमिति । सुगमम् ॥ २६–२७ ॥
शेषमग्निमिति । पक्षसन्धिरीतिभ्यां सह पक्षयोश्चतुःपञ्चाशत् पञ्चम्यः ।
पुच्छेन सह आत्मनि मध्यतः पञ्चसप्ततिः । आत्मपार्श्वयोरष्टादशाष्टादश । एवं
पक्षयोश्चतुःषष्टिः । पुच्छे त्रिंशत् । षट्शतमात्मनि । अस्मिन् प्रस्तारे पञ्चषष्टिः
शतं पञ्चम्यः । षडध्यर्धाः । पञ्चविंशतिरर्ध्याः । चतस्रः पाद्याः ॥ २६–२७ ॥
[ इति चतुरश्रश्येनचिदुपधानप्रकारः । ]
अथ वक्रपक्षो व्यस्तपुच्छः ॥ २८ ॥
अथ चतुरश्रश्येननिरूपणानन्तरं वक्रश्येन उच्यते—वक्रेति । वक्रौ
कुटिलौ पक्षौ यस्य स वक्रपक्षः । व्यस्तो विस्तीर्णः पुच्छो यस्य स व्यस्त-
पुच्छः ॥ २८ ॥
१२