बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 117, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ८७
पूर्वोक्तात्सिक्षेत्र एव इष्टकाकरणभेदात् अपरं चतुरश्रं श्येनचितमाह—
अथापर इति ॥ १८ ॥
अथापर इति । चतुरस्रश्येनचितोऽपरः प्रकार उच्यत इति शेषः । अस्मद्-
ब्राह्मणलिङ्गानुसारेणानियतरूपाइचयनप्रकारा वक्ष्यन्त इत्यर्थः ॥ १८ ॥
पुरुषस्य पञ्चम्यः । ता एवैकतोऽध्यर्धाः । तासामर्ध्याः
पाद्याश्च ॥ १९ ॥
पुरुषस्येति । पुरुषस्य पञ्चम्यः सर्वतोऽरत्नप्रमाणकाः । ता एव एक-
तोऽध्यर्धाः षट्त्रिंशदङ्गुलदीर्घाः चतुर्विंशत्यङ्गुलायामाः । (तासामिति ।
पञ्चमीनाम् । अर्ध्याः चतुर्विंशत्यङ्गुलदीर्घाः द्वादशाङ्गुलायामाः ?) पाद्याः
सर्वतो द्वादशाङ्गुलाः ॥ १९ ॥
तत्र करणानि । पुरुषस्येति । सर्वतोऽरत्निमात्राः । ता एवैकत इति