सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 101, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 101

ऽध्यायः ] बौधायनीयं ७१
चतुरश्रपक्षे इष्टकाकरणप्रकारमाह--चतुरश्रमिति । चतुरश्रं दक्षिण-
मारभ्य उदगपवर्गं सप्तधा विभज्य प्रत्यगारभ्य प्रागपवर्गं त्रेधा विभजेत् ।
एवञ्च प्रागायताः सप्तरीतय उदगायतास्तिस्रो रीतयः संपन्नाः । अपर-
स्मिन्निति । उदीच्यः सप्तरीतयः प्राच्यस्तिस्रः समचतुरश्रा यथा भवन्ति
तथोपद्ध्यादित्यर्थः ॥ ३१ ॥
चतुरस्रमिति । पूर्वापरेण सप्तधा विभागः । विभागद्वारेण करणान्युक्तानि
भवन्ति । तत्र द्वात्रिंशदङ्गुल आयामः । दशतिलोनाचतुर्दशाङ्गुलन्यासम् एकमेव
करणम् । अपरस्मिन्निति । उदीचीरुदगायताः । अस्मादेव व्यत्यासवचनाद् अत्रापि
भेदवर्जनं पशुधर्मत्वञ्च आश्रयणीयमिति सूचितं भवति । समचतुरस्त्रेति । इष्टका
इति शेषः ॥ ३१ ॥
व्यायामषष्ठेनेष्टकाः कारयेत् चतुर्थेन तृतीयेनेति ॥ ३२ ॥
अस्मिन्नेव चतुरश्रपक्षे उपधाने प्रकारान्तरमाह--व्यायामषष्ठेनेति ।
षोडशाङ्गुलप्रमाणे समचतुरश्रेष्टकाः कारयेत्, चतुर्थेन अरत्निप्रमाणे
समचतुरश्रा इष्टकाः कारयेत्, तृतीयेन द्वात्रिंशदङ्गुलप्रमाणे समचतुर-
श्रेष्टकाः कारयेत् ॥ ३२ ॥
व्यायामेनेति । अत्र षोडशाङ्गुलेन, अरत्निना, द्वात्रिंशदङ्गुलेन । इति-
रेवमर्थे ॥ ३२ ॥
तासां नव प्रथमा, द्वादश द्वितीया, इति पूर्वस्मिन् प्रस्तार
उपदधाति ॥ ३३ ॥
इष्टकाकरणमुक्त्वोपधानप्रकारमाह--तासामिति । तासां पूर्वोक्तेष्ट-
कानां मध्ये नव प्रथमाः षोडशाङ्गुलप्रमाणा मध्ये संश्लिष्टा उपधाय द्वादश
द्वितीया अरत्निप्रमाणाः सर्वत उपदध्यात् ॥ ३३ ॥
तासामिति । प्रथमाः प्रथमोक्ताः षोडशाङ्गुलाः । द्वितीया द्वितीयोक्ता अरत्नयः ।
इति शब्दः समुच्चयार्थः । अरत्नित्रयसमचतुरस्रे प्रथमा उपदध्यात् । परितो द्वाद-
शारत्नयः । एवं पशुधर्मत्वं भवति ॥ ३३ ॥
पञ्च तृतीयाः षोडश प्रथमा इत्यपरस्मिन् ॥ ३४ ॥
पञ्चेति । अपरस्मिन् प्रस्तारे पञ्च तृतीया द्वात्रिंशदङ्गुलप्रमाणाश्च-