बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 100, कुल 366 में से
संदर्भ में पढ़ें७० शुल्बसूत्रम् [ द्वितीयो-
नियतवचनाभावात् । न केवलं विवरेष्वेव निम्नोन्नतपरिहारार्थं जान्वादिप्रमाणा-
विरोधेन पुरीषोपधानम् । तस्मान्मांसेन इत्यर्थवादेन शोषपाकाभ्यां ह्रासवचनेन ।
उक्तानि प्रमाणानि करणीनामेव नेष्टकानामित्युक्तं भवति ॥ २८ ॥
[ इति इष्टकाधर्मकथनम् ! ]
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ २९ ॥
इष्टकाधर्मानुक्त्वा गार्हपत्यासिपरिमाणप्रतिपादिकां श्रुतिमाह—
व्यायाममात्रीति । गार्हपत्यचयनस्य व्यायाममात्री वेदिर्भवतीत्यर्थः ।
एवं चतुररत्निर्यायाम इत्युक्तत्वात् चतुररत्निप्रमाणेन सर्वतो गार्हपत्याग्ने-
रायतनं कुर्यादित्यर्थः ॥ २९ ॥
व्यायामेति । चतुररत्निर्यायामः कल्प एतेनैव ज्यायसः प्रक्रमानित्यस्योपलक्षण-
त्वात् । व्यायाममात्राद् गार्हपत्यपरिमाणात् प्राग्वंशिकमाहवनीयपरिमाणं पद्चतुष्टयं
परित्यज्य शिष्टानि षट्त्रिंशदङ्गुलानि प्राग्वंशस्य पूर्वापरप्रक्रमप्रमाणेन षोडशधा
विभज्य सपादमङ्गुलद्वयं प्रक्रमे प्रक्षिप्य प्राग्वंशमानकाले तेन प्रक्रमस्थानीयेन षोडश-
प्रक्रमायाममित्यादिना मित्वा पश्चाद्भागे षष्ट्यङ्गुलं सञ्चरमवशिष्य ततः पुरस्तात्
षष्ट्यङ्गुलविष्कम्भपरिमण्डलं गार्हपत्यायतनं कृत्वा तस्य पुरस्तात् चतुश्चत्वारिंश-
च्छताङ्गुलेन प्रमाणेन शङ्कुं निहत्य ततः षण्णवत्यङ्गुलायामां वेदिं कृत्वा ततः पुरस्तात्
चतुररत्न्यायामञ्च समचतुरस्रमाहवनीयं कृत्वा दीक्षादिवसेषु मध्येऽग्निं निधाय
चयनकाले अथैनमग्निम् इत्यादि एवं कृते प्रकृतिसिद्धयोः पूर्वापरयोः सञ्चरयोर्वे-
द्याश्च सङ्कोचो न भवति । आहवनीयोऽप्यायतनमध्ये निहितो भवति ॥ २६ ॥
चतुरश्रेत्येकेषाम् । परिमण्डलेत्येकेषाम् ॥ ३० ॥
गार्हपत्यस्यायतनभेदावाह—चतुरश्रेति । परिमण्डलेति च । इदमा-
यतनं केषाञ्चिदाचार्याणां पक्षे चतुरश्रम्, केषाञ्चित्तु परिमण्डलम् ॥ ३० ॥
गार्हपत्यचितेः सर्वाङ्गीनामङ्गत्वात् परिभाषाध्याय उच्यते चतुरस्रेति ।
श्रुतिरिति शेषः । परिमण्डल इति । पूर्ववत् । परिमण्डलपक्षे व्यायामार्धेन परिमण्डल-
करणम् । तत्र चतुररत्न्यायामः ॥ ३० ॥
चतुरश्रं सप्तधा विभज्य तिरश्चीं त्रेधा विभजेत् । अपर-
स्मिन् प्रस्तारे उदीचीरुपदधाति । समचतुरश्राश्चेदुप-
दध्यात् ॥ ३१ ॥