सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 62, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 62

[२ । ५, ६ ।] बौधायनश्रौतसूत्रम् । ४१

यो नः पाप्मन् जहाति तसु त्वा जहिमो वयमन्यत्रास्मन्नि-
विशताम्१ सहस्राक्षो अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु
द्विष्मस्तसु जहीत्याञ्जलिनाप उपहन्ति सुमित्रा न आप
ओषधयः सन्त्विति ' तां दिशमेता अप उत्सिञ्चति२ यस्यामस्य
दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्यो ऽस्मान्द्वेष्टि यं च वयं
द्विष्म इत्येवाप उपस्पृश्य यथेतं प्रविशन्ति ' ॥ ५ ॥ द्वितीयः ॥
अथैदमग्न्याधेयं ' तस्य कः कर्मण उपक्रमो भवतीत्युक्ता-
न्यृतुनक्षत्राण्युक्तमात्मनः पुरश्चरणं ' कथमस्यानुपूर्व्यं३ भवति '
स्नानपवनमन्त्राचमनमन्त्रप्रोक्षणपुण्याहवाचनानि श्रद्धामाह्वया-
कृत्या वेदनं कृत्वोपवाह्यर्त्विजो४ वृत्त्वार्हयित्वा देवयजनं
याचित्वा देवयजनमादाय स्फ्यमादायान्तरेण वेद्युत्करावुद्धेगेन
प्रपद्य जघनेन गार्हपत्यं तिष्ठन्प्राचीनम्५ स्फ्येन गार्हपत्यस्याय-
तनमुद्धन्त्युद्धन्यमानमस्या असेधमप पाप्मानं यजमानस्य हन्तु।
शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसा-
तेत्यथैनदद्भिरवोक्षति शं नो देवीरभिष्टय आपो भवन्तु
पीतये । शं योरभिस्रवन्तु न इत्येवमेवान्वाहार्यपचनस्यायतन-
मुद्धन्त्येवमेवाहवनीयस्यैवमितरयोर्यदि करिष्यन्भवत्यथान्तरेण


१ Thus Be HF, 10; the other MSS. ०चास्मिन्नि० or ०चास्मान्नि० ।
२ Thus only B Be and partially T, cp. Pray. M. loc. cit. the
other MSS. have this passage as infra IV. 7, s. f.
३ Thus all except H, which has पूर्वं ।
४ Thus BTJ, हृत्यार्त्विजो F, कृत्य र्त्वलिजो Be H.
५ Thus BT, the other MSS. प्राचीम् ।

6