बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 572, कुल 774 में से
संदर्भ में पढ़ेंनाश्वस्य १ तूपरस्य गोमृगस्येतीडामवद्यत्यवद्यन्तीतरेषां पशूना-
मथैतमश्वं २ वैतसे कटे यथाङ्गं ३ चिनोति ' पुरस्तात्प्रत्यञ्चं
तूपरमा'यातयति ' पश्चात्प्राचीनं गोमृगम'थ जुहूपभृतावाद-
दान आह प्रजापतय इत्युपांशु हयस्य छागस्योखस्य हविषो
ऽनुब्रूहीत्युच्चै'राक्रम्याश्राव्याह प्रजापतय इत्युपांशु हयस्य
छागस्योखस्य हविः प्रस्थितं प्रेष्येत्युच्चै'र्वषट्कृते तान्सहैव कटेना-
ग्नावनुप्रहरति ॥ ३३ ॥
द्यौस्ते पृष्ठं क्रमैरत्यक्रमोदाज्याक्रान्वाजीति त्रिभिरनुवाकै-
र'थ पर्यङ्गाणां हविर्भिस्चरन्त्यथेतरेषाम'थ दक्षिणेषां प्रति-
प्रस्थातारो हविर्भिस्चरन्त्यथोत्तरेषां ' यांश्च ग्राम्याणां
पशूनामुदस्राचौदारण्यांश्च स्रुवाहुत्यस्तेषां हविर्भिः प्रतिजु-
होत्युपांश्वेतेषां पशुजातानां हविर्भिस्चरन्तीत्युक्तमेतद'थ
पुरस्ताद्वनस्पतेः समान्यो दिशः प्रतियजन्त्य'थ वनस्पतिना
चरन्त्य'थ पुरस्तात्स्विष्टकृतो गोमृगकण्ठेन प्रथमामश्वतेजनीमुप-
जुहोत्य'थ स्विष्टकृता चरन्त्येतस्मिन्काल आहवनीये स्रुवाहुतिं
जुहोति क्रताय स्वाहेति ' ॥ ३४ ॥
अथैतं प्रसेकमग्नावाया'तयति दक्षिणतो वोदञ्चं पश्चाद्वा
प्राञ्चं ' तस्य स्रुगिव पूर्वार्धो ४ भवत्ये'वमेव मध्यं ' चमस इव
१ Thus M Be ; नानाश्वस्य UB.
२ MSS. exc. M. ins. here पशूनां ।
३ Thus M ; यथाछं Be; यथास्वं BU.
४ पूर्वार्धं M ; पूर्वार्ध्यो the other MSS., but cp. supra x. 51 (p. 56, 9).