बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 571, कुल 774 में से
संदर्भ में पढ़ें२३८ बौधायनश्रौतसूत्रम् । [ १५ । ३२, ३३ । ]
अथ सावित्रᳵ हुत्वा प्रसर्पन्ति माध्यंदिनाय सवनाय ।
प्रसिद्धो ऽभिषवः । प्रसिद्धं ग्रहाः गृह्यन्ते । समानं कर्मा
दाक्षिणेभ्यो । दाक्षिणानि हुत्वाग्नौ संवर्गाञ्जुहोत्यर्वाङ्-
यज्ञः संक्रामत्विति । कामं दक्षिणानां १ ददाति । वैश्वकर्मणानि
हुत्वा नव पर्याप्त्रीर्जुहोति भूतं भव्यं भविष्यदिति । प्रसिद्धो ५
ऽन्यभिषेको २ । ऽहीनसंततिं करोत्यूर्जुधा माध्यंदिनᳵ सवनᳵ
संतिष्ठते । ऽथ सावित्रᳵ हुत्वा प्रसर्पन्ति तृतीयसवनाय ।
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथोक्थ्यं गृह्णाति ।
समानं कर्मा पवमानात्पवमानेन चरित्वैतान्यूर्ध्वान्याचक्ष्यं
तूपरं गोमृगमित्यंथ पर्यङ्ग्यानयेतरानथ दक्षिणानथोत्तरानुत्त- १०
रतो ऽश्वस्य तूपरस्य गोमृगस्येति हविरुपसादयन्ति दक्षिणत
इतरेषां पशूनामथ वैतसे कटे ऽश्वस्य ३ हृदयं निधाय सुवर्णेन
च सायकेन च तस्याग्रे ऽवद्यन्नाह ॥ ३२ ॥
मनोतायै हविषो ऽवदीयमानस्याऩुब्रूहीत्येकादशावदाना-
न्यवद्यत्येवं तूपरस्यैवं गोमृगस्य । कालायसैः पर्यङ्ग्याणां लोहा- १४
यमैरितरेषाᳵ सुवर्णैर्दक्षिणेषाम्रजतैरुत्तरेषां । नाश्वस्य ४
तूपरस्य गोमृगस्येति स्विष्टकृते ऽवद्यत्यवद्यन्तीतरेषां पशूनां ।
१ M ins. प्रति after कामं and leaves a blank for two akṣaras
before दक्षि०।
२ Thus M; भिषवो the other MSS.
३ श्यहू M.
४ Thus M; वाश्वस्य the other MSS.