सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 502, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 502

[ १४ । १०, ११ । ] बौधायनश्रौतसूत्रम् । १७१
प्रत्यङ् तिष्ठन्प्रतिगृह्णाति तस्मात्प्राचीनꣳ रेतो धीयते प्रतीचीः
प्रजा जायन्त इति ब्राह्मणमथ वै भवति यद्वै होताध्वर्युम-
भ्याह्वयते वज्रमेनमभि प्रवर्त्तयति ' पराङावर्त्तत इति ' सो
ऽभ्याहूतः पराङावर्त्तते ' वज्रमेव तन्निकरोतीति ब्राह्मणमुक्तं
प्रतिनिर्ग्राह्याणां ग्रहणमुक्तं१ सꣳस्रावस्थापिधानमुक्तमुपाꣳ-
श्वन्तर्यामयोरनुमन्त्रणमुक्तं द्विदेवत्यानां चर्या२ ' ॥ १० ॥
चतुर्थः ॥
अथातो ऽतिग्राह्याणामेव ग्रहणम् ' स यद्येको यदि वा
बहव आग्रयणमेवैनान्गृहीत्वा गृह्णाति ' माहेन्द्रस्यैव होममनु
हूयन्ते३ ' स आग्नेयं गृह्णात्यग्न आयूंषि पवस इत्यनुद्रुत्योप-
यामगृहीतो ऽस्यग्नये त्वा तेजस्वते जुष्टं गृह्णामीति ' परिमृज्य
सादयत्येष ते योनिरग्नये त्वा तेजस्वत इत्यथैनꣳ होष्यन्नवेक्षते
ऽग्ने तेजस्विंस्तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं
वर्चस्वन्तं मनुष्येषु कुर्विति ' जुहोति दीक्षायै च त्वा तपसश्च
तेजसे जुहोमीति ' हुत्वा वाचयति तेजोविदमसि तेजो मा मा
हासीन्माहं तेजो हासिषं मा मां तेजो हासीदिति ' भक्षयति
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधात्वित्यैन्द्रं गृह्णात्यु-
त्तिष्ठन्नोजसा सहेत्यनुद्रुत्योपयामगृहीतो ऽसीन्द्राय त्वौजस्वते
जुष्टं गृह्णामीति ' परिमृज्य सादयत्येष ते योनिरिन्द्राय


१ These two words are left out in all the MSS. exc. M.
२ चर्य्याः Be.
३ Thus ( and cp. Āp. XIII. 8. 7 ) MU ; हूयते Be : क्रियंते BG.