बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 501, कुल 774 में से
संदर्भ में पढ़ेंDigitized by Madhuban Trust
१७० बौधायनश्रौतसूत्रम् । [ २४ । २० । ]
ब्राह्मणम॑थ वै भवति यद्वै होताध्वर्युमभ्याह्वयत आयमस्या-
न्दधाति॑ तद्यन्नापह्वीत पुरास्य संवत्सराद्गृह्या आवेवीरञ्छों५सा
मोद इवेति प्रत्याह्वयत इति॑ सो ऽभ्याहूतः शो५सा मोद
इवेति प्रत्याह्वयते॑ तेनैव तदपहृत इति ब्राह्मणम॑थ वै भवति
यथा वा आयतां प्रतीक्षत एवमध्वर्युः प्रतिगरं प्रतीक्षते॑ ५
यदभिप्रतिगृणीयाद्यया॑तया समृच्छेते तादृगेव तद्यदर्धर्चाच्छुच्येत
यथा धावञ्ज्यो हीयते तादृगेव तत्त॑स्मादर्वाङ्नाप्रतिगरी स्यादार्वा-
गाप्रतिगरी ह वा अभि¹ वा प्रतिगृणात्यर्धर्चाद्वा हीयते॑
प्रणौतीत्येव² प्रणौयादपानितीत्येवापान्याद्य॑³ एवं विद्वान्प्रति-
गृणात्याद एव भवत्या॑स्य प्रजायां वाजी जायत इति १०
ब्राह्मणम॑थ वै भवत्ययं वै होतासावध्वर्युर्यदासीनः शꣳसत्यस्या
एव तद्धोता नैत्य॑स्त इव हीयम॑थो इमामेव तेन यजमानो
दुहे॑ यत्तिष्ठन्प्रतिगृणात्यमुष्या एव तदध्वर्युर्नैति॑ तिष्ठतीव
ह्यसावेथो⁴ अमुमेव⁴ तेन यजमानो दुहे॑ यदासीनः शꣳसति
तस्मादितःप्रदानं देवा उपजीवन्ति॑ यत्तिष्ठन्प्रतिगृणाति १५
तस्मादमुतःप्रदानं मनुष्या उपजीवन्ति॑ यत्प्राङासीनः शꣳसति
१ ऽपि all, but cp. TS. III. 2. 9. 5.
२ Thus M only ; प्रणौतामेव the other MSS.
३ एव after ऽपानितीति only found in M. The sense of these