बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 459, कुल 774 में से
संदर्भ में पढ़ेंमेकादशकपालं निर्वपेदपरुद्धो वापुरुध्यमानो वेति । तस्या
एते भवत इन्द्रः सुत्रामा तस्य वयग्ं सुमतौ यज्ञियस्येति ।
यो ऽलग्ं श्रियै सन्सदृङ् समानैः स्यात्स एतमैन्द्रमेकादश-
कपालं निर्वपेदित्थं वै भवति रेवती पुरोऽनुवाक्या भवति
शान्त्या अप्रदाहाय शक्वरी याज्येति । तस्या एते भवतो रेव- ५
तीर्नः प्र वो वाग्ने पुरोरथमिति ॥ १४ ॥ पञ्चमः ॥
अथ वै भवत्याग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्स-
रस्वत्याज्यभागा स्याद्वार्हस्पत्यश्चरुरित्यंथ वै भवति प्रति वै
परस्तादभिचरन्तमभिचरन्ति । द्वे द्वे पुरोऽनुवाक्ये कुर्यादति-
प्रयुक्त्या इति । य द्विर्द्विः पुरोऽनुवाक्यामन्वाह । चिस्त्रिर्हवि- १०
षामवद्यति । तस्या एता भवन्त्यग्नाविष्णू अग्नाविष्णू प्र णो
देव्या नो दिवो बृहस्पत एवा पिच इत्येतैरेव यजेताभिचार्य-
माण इति । तस्या एता एव भवन्त्यग्नावैष्णवमेकादशकपालं
निर्वपेद्यं यज्ञो नोपनमेदिति । तस्या एते भवतो ऽग्ना-
विष्णू अग्नाविष्णू इत्याग्नावैष्णवं घृते चरुं निर्वपेच्चक्षुष्काम १५
इति । तस्या एते एव भवतः ॥ १५ ॥
अथ वै भवतीन्द्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानो ऽयज-
मानस्याध्वरकल्यां प्रतिनिर्वपेद्भ्रातृव्ये यजमाने । नास्येन्द्रियं
वीर्यं वृङ्क्ते । पुरा वाचः प्रवदितोर्निर्वपेदिति । स पुरा वाचः
प्रवदितोर्महारात्र उत्थायाग्नावैष्णवमष्टाकपालं निर्वपेत्प्रातः- २०
सवनस्याकाले । सरस्वत्याज्यभागा स्याद्वार्हस्पत्यश्चरुरिति । तस्या
एता भवन्त्यग्नाविष्णू अग्नाविष्णू प्र णो देव्या नो दिवो बृह-