बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 458, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 458
इष्टिकल्पः
[ १३ । १२-१४ । ] बौधायनश्रौतसूत्रम् । १२७
पेद्यं मृधो ऽभि प्रवेपेरन्वास्त्राणि वाभि समियुरिति॑ तस्या
एते भवतो वि न इन्द्र मृधो जहि मृगो न भीम इती॑-
न्द्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो
वेति॑ तस्या एते भवतस्त्रातारमिन्द्रं मा ते अस्याᳵ सहसा-
५ वन्निती॑न्द्रायार्कायमेधवते पुरोडाशमेकादशकपालं निर्वपेद्यं
महायज्ञो नोपनमेदिति॑ तस्या एते भवतो ऽन्वस्मै रथं
वृष्णो यत्त इति॑ ॥ १२ ॥
इन्द्रायान्वृजवे पुरोडाशमेकादशकपालं निर्वपेद्ग्रामकाम
इति॑ तस्या एते भवतो ऽन्वह मासा अनु ते दायीती॑न्द्राण्यै
१० चरुं निर्वपेद्यस्य सेनामूर्छितेव स्यादित्यर्थ वै भवति बह्वब्जा-
[L1