सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 456, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 456

[ १३ । ८ - १० । ] बौधायनश्रौतसूत्रम् । १२५
तस्या एता भवन्त्यग्निर्मूर्धा भुवो वैश्वानरो न ऊत्या त्वमग्ने
शोचिषा शोशुचान इति॑ । वैश्वानरं द्वादशकपालं निर्वपेन्मा-
रुतᳪ सप्तकपालं ग्रामकाम इत्यथ वै भवत्याहवनीये वैश्वा-
नरमधिश्रयति गार्हपत्ये मारुतम॑नूचमान आसादयतीति॑ ।
५ काले प्रत्यञ्चं वैश्वानरमासादयत्य॑नूचमानासु सामिधेनीषु
मारुतं॑ । तस्य एता भवन्ति वैश्वानरो न ऊत्या पृष्टो दिवि
मरुतो यद्ध वो दिवो या वः शर्मेति॑ ॥ ८ ॥
आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्निति॑ । तस्या एते
भवतो ऽदितिर्न उरुष्यतु महीम् पु मातरमिति॑ । वैश्वानरं
१० द्वादशकपालं निर्वपेदायतनं गत्वेति॑ । तस्या एते भवतो वैश्वा-
नरो न ऊत्यास्माकमग्ने मघवत्सु धारयेति॑ । वैश्वानरं द्वादश-
कपालं निर्वपेद्दिधिषाणयोरन्नं जग्ध्वेति॑ । तस्या एते भवतो
वैश्वानरो न ऊत्या त्वावानमिति॑ । वैश्वानरं द्वादशकपालं निर्व-
पेत्समानयोः पूर्वो ऽभिद्रुह्येति॑ । तस्या एते एव भवतो॑ ।
१५ वैश्वानरं द्वादशकपालं निर्वपेद्दिवं प्रतिगृह्येति॑ । तस्या एते
भवतो वैश्वानरो न ऊत्या त्वमग्ने शोचिषा शोशुचान इति॑ ।
वैश्वानरं द्वादशकपालं निर्वपेदुभयादत्प्रतिगृह्याश्वं वा पुरुषं
वेति॑ । तस्या एते एव भवतो॑ । वैश्वानरं द्वादशकपालं निर्व-
पेत्सनिमेष्यन्निति॑ । तस्या एते भवतो वैश्वानरो न ऊत्या
२० वैश्वानरस्य सुमतौ स्यामेति॑ ॥ ९ ॥
अथ वै भवति यो वै संवत्सरं प्रयुज्य न विमुञ्चत्यप्रति-
ष्ठानो वै स भवत्यैतमेव वैश्वानरं पुनरागत्य निर्वपेदिति॑ ।