बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 455, कुल 774 में से
संदर्भ में पढ़ें[१२४]
बौधायनश्रौतसूत्रम् ।
[ १३ । ७, ८ । ]
एते भवतो ऽग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनेत्यग्नये
ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धतो ऽहुते
ऽग्निहोत्र उद्वायेदपर आदीप्यानुद्धृत्य दद्यादुत्सन्नतया न
कार्यं ' यद्भागधेयमभि पूर्व उद्ध्रियते किमपरो ऽभ्युद्ध्रियेतेति '
तान्येवावक्षाणानि संनिधाय मन्थेदिति ' स तान्येवावक्षाणानि ५
संनिधाय मन्थतीतस्ततः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जात-
वेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु
प्रजानन्निति ' छन्दोभिरेवैन स्वाद्योनेः प्रजनयतीति ब्राह्मण-
मग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेदिति ' तस्या
एते भवत उदग्ने शुचयस्तव वि ज्योतिषेति ' ॥ ७ ॥ १०
तृतीयः ॥
अथ वै भवति वैश्वानरं द्वादशकपालं निर्वपेद्दारुणं चरुं
दधिक्राव्णे चरुमभिप्रस्यमान इत्येतयेष्ट्या यक्ष्यमाण उपकल्प-
यते हिरण्यं ' तस्या एता भवन्ति वैश्वानरो न ऊत्या त्वमग्ने
शोचिषा शोशुचानो ऽव ते हेड उदुत्तमं दधिक्राव्णो अकारि- १५
षमिति दधिक्रा इत्यन्वाहार्यमासाद्य हिरण्यं ददात्येतामेव
निर्वपेत्प्रजाकाम इति ' तस्या एते भवन्ति ' वैश्वानरं
द्वादशकपालं निर्वपेत्पुत्रे जात इति ' तस्या एते भवतो
वैश्वानरस्य दस्मनाभ्यो बृहज्जातो यदन्न इति ' वैश्वानरं
द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वातिपातयेति ' २०
तस्या एते भवतो वैश्वानरो न ऊत्या पृष्टो दिवीत्याग्नेयमष्टा-
कपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्निति '