बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 413, कुल 774 में से
संदर्भ में पढ़ेंमार्जयन्ते ' ऽथेन्द्राय त्वेन्द्राय त्वेत्येवं त्रिभिरुक्थपर्य्यायैश्चरति¹ '
संतिष्ठते माध्यंदिनम् सवनम् ' ॥ १२ ॥ चतुर्थः ॥
अथ सावित्रम् हुत्वा प्रसर्पन्ति तृतीयसवनाय ' प्रसिद्ध-
मादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथ षोडशिनमभिगृह्णा-
त्यसावि सोम इन्द्र त इत्यनुद्रुत्योपयामगृहीतो ऽसीन्द्राय ५
त्वा षोडशिने जुष्टं गृह्णामीति ' परिमृज्य सादयत्येष ते
योनिरिन्द्राय त्वा षोडशिन इत्येथोक्थ्यं गृह्णाति ' समानं
कर्मा पवमानात्पवमानेन चरित्वा स्वे धामन्पशुभिश्चरति² '
तेषां नाना मनोता नाना देवता नाना प्रत्यभिमर्शना नाना
वपाहोमाः समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानौडा १०
समान्यो दिशो ' नाना दिश इत्येके ' समानं कर्मा ध्रुववद्ध्य-
समेभ्यो ' ध्रुववद्भिश्शमसैश्चरित्वा त्रिभिरुक्थपर्य्यायैश्चरतीन्द्रा-
वरुणाभ्यामिन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यामित्यथ³ षोडशिना
चरत्यथ प्राङायन्नाह होतृचमसमनून्नयध्वमुन्नेतः सर्व्वम् एव
राजानमुन्नय मातिरीरिच इति ' होतृचमसमेव प्रथममुन्नयन्ति १५
यथोपपादमितरान्सर्व्वम् एव राजानम् समुन्नीयोत्तरवेद्याम्
सꣳसादयन्ति ' तदेतान्याजापत्यान्सह सꣳसादयन्त्यथाप उप-
स्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ् द्रुत्वा स्तोत्रमुपा-
१ Thus M Tr; चरंति UB Be H Be 11 F.
२ Thus M Tr BHF; चरंति Be 11 U.
३ ॰चरतीन्द्रा॰ M Tr; the other MSS. read plural.