बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 368, कुल 774 में से
संदर्भ में पढ़ेंअग्निचयनम्
Digitized by Madhuban Trust
[१० । ३८, ३६ ।] बौधायनश्रौतसूत्रम् । ३७
मचित्तिं चिनवद्वि विदानित्याग्नेय्या त्रिष्टुभैतां चितिमभि-
मृश्य द्वाभ्यामवद्रवति वाङ् म आसन्प्राणदा इत्य॑थापराह्निकीभ्यां
प्रवर्यापसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते ऽ वसन्त्येताꣳ
रात्रिम् ' ॥ ३८ ॥ एकादशः ॥
५ अथ चतुर्थे ऽभ्युदित आदित्ये प्रवर्यापसद्भ्यां प्रचरति '
समानं पुरीषस्योपधानम॑थ पञ्चमे ऽभ्युदित आदित्ये प्रवर्याप-
सद्भ्यां प्रचरति ' सर्व एव कार्ष्णाजिनौरुपानह उपमुञ्चन्ते '
ऽथ यावत्याज्यस्थाल्यौꣳ सस्रुवां विभक्तिमुदपात्रꣳ सर्वं च स्वय-
मातृण्णानिकेतं दृशं च स्कन्ध्या अवकाश्च या उ चान्या उप-
१० धास्यन्भवति ता ' एतत्स मादा योत्तरे श्रोण्यन्ते सꣳसादयन्त्य॑थ
द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो
अग्निरिति ' स्वयंचितिं जपति यास्ते अग्ने समिधो यानि
धामेति ' श्वेतमश्वमभिमृश्याधिद्रवत्यपामिदं न्ययनं नमस्त
इति द्वाभ्याम॑थाधिद्रुत्य द्वितीये संचिताऽहुती जुहोत्यग्ने दुश्च
१५ तन्त्वा यामीति ' दक्षिणतो विभक्तिमुपदधात्यग्निनाग्निः समि-
ध्यत इति ' तयादेवतं कृत्वा सूददोहसं करोत्य॑थ स्वयमातृ-
ण्णामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति भुव
इन्द्राग्नी अव्यथमानामित्यनुद्रुत्य वायुस्त्वाभिपातु मह्या स्वस्त्या
छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति ' व्यन्या-
२० द्वितीयामुपधायेति ' प्राणापानिति ' स व्यानो ' ऽथैष ब्राह्मणो
वरं ददात्य॑थ सुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे
जुहोति चित्तिं जुहोमि मनसा घृतेनेत्य॑ङ्गुष्ठाभ्यामन्वारभ्या-
CC-0. Public Domain. Vipin Kumar Collection, Deoband