सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 365, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 365

३४
बौधायनश्रौतसूत्रम् । [ १० । ३६, ३७ । ]

रतः प्राजापत्यामुपदधाति संवत्सरस्य प्रतिमामिति ' तां जघ-
नेन प्रक्रमवेलायां प्राञ्चमृषभमुपदधाति त्वामग्ने वृषभं चेकि-
तानमिति ' तयादेवतं कृत्वा सूददोहसौ करोत्यथ लोकंपृणा
उपदधाति लोकं पृण छिद्रं पृणाय सीद शिवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्निति ' तयादेवतं ५
करोति तया देवतया ऽङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति
ता अस्य सूददोहसः सोमग्ं श्रीणन्ति पृश्नयः । जन्मन्देवानां
विशस्त्रिष्वा रोचने दिव इति ' प्राच्याच लोकंपृणया प्रसौ-
त्यग्निं प्राचीभिः संप्रच्छादयन्ति ' संप्रच्छन्नं पलाशशाखया
परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिक्लृप्त्याभिमृशति १०
चित्तिमचित्तिं चिनवद्वि विद्वांनित्याग्नेय्या गायत्र्यैतां चिति-
मभिमृश्य द्वाभ्यामवद्रवति वाङ्मा आसन्प्राणदा इत्यथाप-
राह्णिकीभ्यां१ प्रवर्गापसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते '
वसन्चेताग्ं रात्रिम् ' ॥ ३६ ॥ दशमः ॥
अथ द्वितीये ऽभ्युदित आदित्ये प्रवर्गापसद्भ्यां प्रचरत्यथ १५
कार्ष्णाजिनी२ उपानहावुपमुञ्चेते३ अध्वर्युश्च यजमानश्चाथ
द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो
अग्निरिति ' स्वयं चितिं जपति यास्ते अग्ने समिधो यानि


१ Thus M Tr. Ms; the other MSS. abbreviate the following
passage.
२ यथापराह्न (or ह्ण) चापराह्नि० Be U Ms.
३ Thus M Tr U Ms; ॰जिनौवुपाय B; ॰जिनिष्पा० H; Be defect.