सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 364, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 364

अग्निचयनम्
Digitized by Madhuban Trust
[ १० । ३५, ३६ । ] बौधायनश्रौतसूत्रम् । ३३
देवंतं कृत्वा सूददोहसः करोत्यथापानभृत उपदधाति प्राची
दिगां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्रविणं त्रिवृत्स्तोमः स उ
पञ्चदशवर्त्तनिस्त्र्यविर्वयः कृतमयानां पुरोवातो वातः सानग
ऋषिरिति । वाचयति पितरः पितामहा इति । दक्षिणेन
५ प्राणभृतो दश प्रतीचौरायातयति स्वयमातृण्णामभि दक्षिणा
दिगामिति । जघनेन प्राणभृतो दशोदीचीरायातयति स्वय-
मातृण्णामभि प्रतीची दिगामित्युत्तरेण प्राणभृतो दश प्राची-
रायातयति१ स्वयमातृण्णामभ्युदीची दिगामित्यग्रेण प्राणभृतो
दश दक्षिणा आयातयति स्वयमातृण्णामभ्यूर्ध्वा दिगामिति ।
१० बाह्येन प्राणभृतो दशभिरुपरिष्टादपमलैः परिचिनोति । विषू-
चीरुपदधातीति ब्राह्मणमपानभृद्भिस्स्थितिरायते' । तयादेवंतं
कृत्वा सूददोहसः करोत्याग्निᳲ सर्वतोमुखं चिनुते२' ॥ ३५ ॥
गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं
पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये३ । तयादेवंतं कृत्वा सूददोहसः
१५ करोत्यथाग्नेरङ्गान्युपदधाति प्राच्या त्वा दिशा सादयामि
गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णोऽसि शिर उपदधामि
दक्षिणया त्वा दिशा सादयामि प्रतीच्या त्वा दिशा सादया-
म्युदीच्या त्वा दिशा सादयाम्यूर्ध्वया त्वा दिशा सादयामि
पाङ्क्तेन छन्दसेति । तयादेवंतं कृत्वा सूददोहसः करोत्यथोत्त-
१ Thus Tr HBU Ms ; प्रतीचौर० M Be.
२ Thus Tr Be BU Ms ; चिनोति MH
३ मध्य इति M.
5
CC-0. Public Domain. Vipin Kumar Collection, Deoband