बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 231, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 231
२१० बौधायनश्रौतसूत्रम् । [ ७। ६, ७ । ]
राज्ञो ऽयं वां मित्रावरुणेत्यनुद्रुत्योपयामगृहीतो ऽसि मित्रा-
वरुणाभ्यां त्वा जुष्टं गृह्णामीति॑ बर्हिषो ऽन्तर्धाय पयसा
श्रीणात्यपोद्धृत्य बर्हिषो दशापवित्रेण परिमृज्य सादयत्येष ते
योनिर्ऋतायुभ्यां त्वेत्यथोपातीत्याश्विनपात्रग्ं शुक्रपात्रमादत्ते॑
तदेतद्वैल्कं वा पालाशं वा श्लक्ष्णं भवति॑ तेन गृह्णात्यतिपव- ५
मानस्य राज्ञो ऽयं वेनश्चोदयदित्यनुद्रुत्योपयामगृहीतो ऽसि
षण्डाय त्वा जुष्टं गृह्णामीति॑ परिमृज्य सादयत्येष ते योनि-
र्वीरतां पाहीत्यथादत्ते मन्थिपात्रं॑ तदेतद्वैकङ्कतग्ं श्लक्ष्णं
भवति॑ तेन गृह्णात्यतिपवमानस्य राज्ञस्तं प्रत्नथेत्यनुद्रुत्योप-
[L1