सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 230, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 230

[अग्निष्टोमः प्रातःसवनम्]
Digitized by Madhuban Trust

[ ७ । ६ । ] बौधायनश्रौतसूत्रम् । २०६

मघवन्मादयस्वेति ' स्वांकृतो ऽसीति ग्रहमुपयच्छत्य॑थैनमवेक्षते'
मधुमतीर्न इषस्कृधीत्यथैनमूर्ध्वमुन्मार्टि विश्वेभ्यस्त्वेन्द्रियेभ्यो
दिव्येभ्यः पार्थिवेभ्य इत्यथैनमादायोपोत्तिष्ठति मनस्त्वाष्ट्वित्ये-
त्युर्वन्तरिक्षमन्विहीत्यैत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वा-
५ हा सुभवः सूर्याय स्वाहेति ' ऽलान्वपानिति ' वाचयति
धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहीत्यथैनमूर्ध्व-
सुन्मृज्य प्राचोत्तानेन² पाणिना मध्यमे परिधावुन्मार्टि देवेभ्यस्त्वा
मरीचिपेभ्य इत्य॑थ प्रदक्षिणमावृत्याग्रयणस्थाल्यां ग्रहस्य
सꣳस्रावमवनयत्येष ते योनिरित्यथैनमुत्तरत³ उपाꣳशुसवनेन
१० सꣳस्पृष्टꣳ सादयत्यपानाय त्वेति ' व्यानाय त्वेत्युपाꣳशुसवनं
प्रत्यभिमृशते ' ऽथोन्नेतारमाहाप्रमत्तः संततमानयोपाꣳशु ग्रहा-
न्ग्रहीष्यामीत्य॑थादत्त ऐन्द्रवायवपात्रं ' तदेतद्राक्षावत्परियोगिवि
भवति ' तेन गृह्णात्यतिपवमानस्य राज्ञ आ वायो भूष
शुचिपा इत्यनुद्रुत्योपयामगृहीतो ऽसि वायवे त्वा जुष्टं
१५ गृह्णामीत्य॑थैनमपयत्य⁴ पुनरेवोपयच्छतीन्द्रवायू इमे सुता
इत्यनुद्रुत्योपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वा जुष्टं गृह्णामीति '
परिमृज्य सादयत्येष ते योनिः सजोषोभ्यां त्वेत्य॑थादत्ते मैत्रा-
वरुणपात्रं ' तदेतत्पिल्लकावद्भवति⁵ ' तेन गृह्णात्यतिपवमानस्य


१ उपयच्छत्य० BTF Keś.; अपय० HJ. २ एव ins. FJ.
३ अथैनमु० TF Keś.; अथैनदु० BHJP.
४ अपयत्य H Bh., Keś.; अपनयत्य B; अपननयत्य F; उपयत्य JT.
५ Thus HJ Bh., Keś.; पिल्लिकावत् T; फलकावद् (i.e., पुञ्ज०) B;
फलका... F.
27