बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 186, कुल 774 में से
संदर्भ में पढ़ेंवा वायवे लेति तामनुदिशति । याप्सु वा पाग्ने वा वरुणाय
लेति तां । या सं वा शीर्यते गर्तं वा पतति निर्ऋतये लेति
तां । यामहिर्वा व्याघ्रो वा हन्ति रुद्राय लेति तां । तासां
तिस्रः पराच्यो ऽथ येयं नष्टा यदि विन्देयुः कथꣳ
५ स्यादित्येतदनुदिष्टैव१ स्यादित्येतदेकं । कमस्या२ अतः२ श्रेयाꣳसं
प्रतिग्रहीतारं लभेत । दक्षिणाभिरेवैनाम्३ सह दद्यादित्येकं ।
वायव्ययैवेनया४ यजेतेत्येतदपरम्४ ॥ ८ ॥ द्वितीयः ॥
अथातः प्रयाणस्यैव मीमाꣳसा । दीक्षितं वायोगक्षेमो
विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सꣳसृजन्ति व्रते । संवघ्नन्ति
१० व्रतदुघयोर्वत्सावादधति५ यदाधेयं भवति नीडे गार्हपत्यं
प्रउग आहवनीयमपि वारण्योरग्नीन्समारोह्य बृहस्पतिवत्यर्चा
प्रयाति भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ
यद्येनं यान्तं व्रतनवेक्षोपाधिगच्छत्युत्तरतो ऽरणी निधाय
दक्षिणतः परिश्रित्य व्रतयति । तूष्णीं तृणोदकायावस्थात्यं
१५ यद्यपर्याणा६ अप उपाधिगच्छति तज्जपति देवीरापो अपां
१ Thus BF (J om. this passage); ऽनूष्टैव T; ऽनुदिष्टेव H.
२ Thus T; कमस्यातश्रे० BJ; क्रमस्या ताः श्रे० F; कमास्याः श्रे० H.
३ एव om. HTF.
४ Thus JF (but ०नयायजेते०) H (but ०वैनयने०); B: वाद्यव्ययैवेनय-
जयेत्ये०; T: यायव्ययैवेनयायजतेत्ये० ।
५ Thus only T and Bh.; ०दधाति the other MSS.
६ Thus all the MSS. and Keś., also the citation in the Dvaidha-
sūtra. I did not venture to correct ऽपपर्याणा, as only the
Vivaraṇa reads.