बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 160, कुल 774 में से
संदर्भ में पढ़ेंवारुण्या अध्वर्युराशयादेककपालस्य च ऽ द्विरभिघारयतो ऽ न
प्रत्यङ्क्ते १ ऽत्याक्रम्याश्राव्याहाग्निग्ं स्विष्टकृतं यजेति ऽ वषट्कृत
उत्तरार्धपूर्वार्धयोरतिहाय पूर्वा आहुतीर्जुहुतो ऽ ऽथैतानि
मेक्षणान्याहवनीययोरनुप्रहरतो २ ऽथैनानि स्रुक्स्रुवाभ्यामभि-
५ जुहुतो ऽ ऽथोदञ्चावत्याक्रम्य यथायतनग्ं स्रुचः ३ सादयित्वा
प्राशित्रमवदायेडामवद्यत ऽ आग्नेयप्रभृतीनामेवाध्वर्युरवद्यति
प्रसिद्धमैन्द्राग्नान्त्वरुत्यै प्रतिप्रस्थाता ऽ वारुण्या अध्वर्युराशया-
दैककपालस्य ४ चाभिघारयत्यथ प्रतिप्रस्थातोत्तरां वेदिमुप-
सर्पति ५ ॥ ८ ॥
१० उपहूतायामिडायामग्नौध आदधाति षडवत्तं ऽ प्राश्नन्ति ऽ
मार्जयन्ते ऽ ऽथास्मै ब्रह्मणे प्राशित्रं परिहरति ऽ परि प्राशित्रग्ं
हरन्त्यन्वपो ऽनु वेदेन ब्रह्मभागमथान्वाहार्यं याचति ऽ तस्मि-
न्यथाश्रद्धं ददात्युद्वासयन्त्येतद्बर्हिरुच्छिष्टमासादयन्ति वाजिने ऽ
अध्वर्युरेव संप्रेषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नी-
१५ दग्नीन्त्सकृत्सकृत्संमृड्ढ्यीत्यथाध्वर्युः पृषदाज्यं विहृत्य जुह्वाग्ं समा-
१ Thus B only; प्रत्यनक्तो Be FH; प्रत्यनक्ते T. (grantha); J प्रत्यनक्ति
If the dual प्रत्यनक्तः should be the correct reading, we would have a
grammatical form of the same kind as स्निन्युः (supra page 136, 12)
instead of स्निह्युः ।
२ Thus T and Bh.; the other MSS. आहवनीये (Be आहवनौयो) ।
३ Thus F; the other MSS. स्रुचौ ।
४ Thus HJ; ०कपालस्याचाभि० the other MSS. except Be, which
has ०कपालस्याशयाचाभि० ।
५ Thus BTHF; उपसॄसर्पति Be J. and Bh.