सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

१. ] आयुर्वेदप्रकाशः । ५५
अथ पारदसेवनविधिं व्याख्यास्यामः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ।
विधिना पथ्यविधानादमरदेहतुल्यदेहः स्यात् ॥ ४३३ ॥
अक्षेत्रीकरणे सति रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः सर्वाङ्गोपक्रुद्भवति ॥ ४३४ ॥
अक्षेत्रीकरणे सूतोऽप्यमृतोऽपि विषं भवेत् ।
फलसिद्धिः कुतस्तस्य सुबीजस्योपरि यथा ॥ ४३५ ॥
कर्तव्यं क्षेत्रकरणं सर्वसिद्धौ रसायने ।
नाक्षेत्रकरणाद्देवि किंचिकुर्याद्रसायनम् ॥ ४३६ ॥
अथ नित्यनाथः—
पञ्चकर्म पुरा कृत्वा पश्चात्सकलदेहिनाम् ।
योजनीयो रसो दिव्यः शीघ्रं सिद्धिमवाप्नुयात् ॥ ४३७ ॥
नवज्वरेऽतिसारे च गर्भिण्यां बालवृद्धयोः ।
न कुर्यात्पञ्चकर्माणि रक्तस्रावं च दाहनम् ॥ ४३८ ॥
पाचनं स्नेहनं स्वेदं वमनं रेचनं तथा ।
एतानि पञ्चकर्माणि ज्ञातव्यानि भिषग्वरैः ॥ ४३९ ॥
अमृतं च विषं प्रोक्तं शिवेन च रसायनम् ।
पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह ।
रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ ४४० ॥
अथान्यच्च ।—
स्निग्धस्विन्नविरिक्तं यन्नीरुजं सिद्धभेषजैः ।
एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम् ॥ ४४१ ॥
स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन, स्विन्नं वस्त्रादिपुटस्वे-
दिना, विरिक्तमिच्छाभेदि नाराचादिसेवनेन, पलाशबीज-
न्तुघ्नगुडमोदकभक्षणेन कीटपातनमपि कर्तव्यं, सिद्धभेषजै-

५६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
नीरुजं संवत्सरमयनं वा परिशीलितैः शृङ्गाराभ्रकलक्ष्मीविला-
साद्यभ्रसत्त्वप्रधानप्रयोगैरिति भावः ॥
उक्तं च ।—
मृताभ्रं भक्षयेन्मासमेकमादौ विचक्षणः ।
पश्चात्तं योजयेद्देहे क्षेत्रीकरणमिच्छतः ॥ ४४२ ॥
इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ ४४३ ॥
घनसत्त्वपादजीर्णोऽर्धकान्तजीर्णश्च तीक्ष्णजीर्णश्च ।
क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोटः ॥ ४४४ ॥
योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च ।
बद्धो रसश्च भुक्तो विधिना सिद्धिप्रदो भवति ॥ ४४५ ॥
अथ रसभक्षणकालः ।
प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके ।
नोल्लङ्घयेत्त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ ४४६ ॥
ताम्बूलान्तर्गते सूते विड्बन्धो नैव जायते ।
सकणाममृतां भुक्त्वा मलबन्धे स्वपेन्निशि ॥ ४४७ ॥
अथ रसमात्राप्रमितिः—
वल्लमेकं नरेऽश्वे तु गद्याणैकं गजे द्वयम् ।
सर्वरोगविनाशार्थं भिषक् सूतं प्रयोजयेत् ॥ ४४८ ॥
मतान्तरम्—
घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाआदिजीर्णस्य ।
सूतस्य गुञ्जवृद्ध्या माषकमात्रं परा मात्रा ॥ ४४९ ॥
शिवः—
गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ।
द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ ४५० ॥
१ 'नैव भोजयेत्' क. ख. ।

२. द्वितीय अध्याय: महारस, उपरस (अभ्रक, माक्षिक, शिलाजतु, गन्धक, हरिताल, मनःशिला)

१.] आयुर्वेदप्रकाशः । ५७
फलम् ।—
तीक्ष्णजीर्णस्य लक्षायुः पलमात्रस्य भक्षणात् ।
एवं दशपलं भुक्त्वा तीक्ष्णजीर्णस्य मानवः ॥ ४५१ ॥
तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ।
भस्मनः शुल्वजीर्णस्य लक्षायुः पलभक्षणात् ॥ ४५२ ॥
कोट्यायुर्ब्रह्म-आयुष्यं वैष्णवं रुद्रजीवितम् ।
द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ ४५३ ॥
अथ हेमजीर्णस्य फलम्—
भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् ।
विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ ४५४ ॥
अस्यानुपानम् ।—
गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निवलावलम् ।
घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं व्रजेत् ॥ ४५५ ॥
एको दोषो हि सूक्ष्मोऽस्ति भक्षिते भस्मसूतके ।
त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ ४५६ ॥
नारीसङ्गादिना देवि अजीर्णं तस्य जायते ।
मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ ४५७ ॥
तस्मादजीर्णशमनोपायमाह—
युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् ।
लघुतां शेफसो ज्ञात्वा पश्चाद्गच्छन् सुखी भवेत् ॥ ४५८ ॥
ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् ।
समाधिकरणं तस्य क्रामणं परमं मतम् ॥ ४५९ ॥
अथ रससेवनकर्तुराहारादिनियममाह—
अतिपानं चात्यशनमतिनिद्राऽतिजागरम् ।
स्त्रीणामतिप्रसङ्गं च आध्मानं च विवर्जयेत् ॥ ४६० ॥

५८ आयुर्वेदीयग्रन्थमाला। [अध्यायः
अतिकोपं चातिहर्षमतिदुःखमतिस्पृहाम् ।
शुष्कवादं जलक्रीडामतिचिन्तां च वर्जयेत् ॥ ४६१ ॥
कूष्माण्डं कर्कटीं चैव कारवेल्लं कलिङ्गकम् ।
कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥ ४६२ ॥
ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥ ४६३ ॥
चतुष्पथे न गन्तव्यं विण्मूत्रं न च लङ्घयेत् ।
वराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥ ४६४ ॥
सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः ।
कुलत्थानतसीतैलं तिलान्माषान्मसूरकान् ॥ ४६५ ॥
कपोतान् काञ्जिकं चैव तक्रभक्तं च वर्जयेत् ।
हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥ ४६६ ॥
कद्रम्लतिक्तलवणं पित्तलं च विवर्जयेत् ।
बदरं नारिकेलं च सहकारं सुवर्चलम् ॥ ४६७ ॥
नारङ्गं काञ्चनारं च शोभाञ्जनमपि त्यजेत् ।
न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ ४६८ ॥
नैवेद्यं नैव भुञ्जीत कर्पूरं वर्जयेत्सदा ।
कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥ ४६९ ॥
न तु हन्यात्कुमारीं च वातलांनि च वर्जयेत् ।
क्षुधार्त्तो नैव तिष्ठेत अजीर्णं नैव कारयेत् ॥ ४७० ॥
दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् ।
हितं दुग्धान्नमुद्गाज्यशाल्यन्नानि सदा ततः ॥ ४७१ ॥
शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् ।
सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् ॥ ४७२ ॥
१ 'मातुलानीं' ग. । मातुलानीं भङ्गाम् ।

१. ] आयुर्वेदप्रकाशः । ५९
आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः ।
एतांस्तु समयान्भद्रे न लङ्घेद्रेसभक्षणे ॥ ४७३ ॥
अथ रसवाग्भटे ।—
(सांधितं पारदं शृङ्गदन्तवेण्वादिधारितम् ।
अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ॥ ४७४ ॥
पर्णखण्डे धृतं सूतं जग्ध्वा तदनुपानतः ।
घृतसैन्धवधान्याकजीरकार्द्रकसंयुतम् ॥ ४७५ ॥
तण्डुलीयकधान्याकपटोलालावुकादिकम् ।
कुस्तुम्बरी मरीचानि सैन्धवं समभागिकम् ॥ ४७६ ॥
व्यञ्जनार्थं कृतं भोज्ये रससेवक उत्तमम् ।)
गोधूमजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ॥ ४७७ ॥
हंसोदकं मुद्गयूषः पथ्यवर्गः प्रकीर्तितः ।
बृहतीबिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ॥ ४७८ ॥
माषं मसूरं निष्पावान् कुलत्थ सर्षपांस्तिलान् ।
बन्धनोद्वर्तनस्नानताम्रचूडसुरासवान् ॥ ४७९ ॥
आनूपमांसधान्याम्लं भोजनं कदलीदले ।
कांस्ये च गुरु विष्टम्भी तीक्ष्णोष्णं च भृशं त्यजेत् ।
निषिद्धं वर्ज्य मतिमान्विचित्ररसभुग्भवेत् ॥ ४८० ॥
स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः॥४८१
अथाज्ञानादशोधितपारदभक्षणे तद्विपशमनोपायमाह—
यद्यज्ञानात्कथमपि नागादिकलङ्कितो रसो भुक्तः ।
तत्स्रावणाय विज्ञः पिवेच्छिफां कारवेल्लिभवाम् ॥ ४८२ ॥
अथ रसाजीर्णे शमनोपायमाह—
रसाजीर्णे महाव्याधीन् लक्षयेद्भिषगुत्तमः ।
अभ्यङ्गमनिलक्षोभे तैलैर्नारायणादिभिः ॥ ४८३ ॥
१ () एतच्चिह्नान्तर्गतः पाठः ख. गः पुस्तकयोर्नोपलभ्यते ।

६० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अरतौ शीततोयेन मस्तके परिषेचनम् ।
तृष्णायां नारिकेलाम्बु मुद्गयूषं सशर्करम् ॥ ४८४ ॥
उद्गारे सति दध्यन्नं कृष्णजीरं ससैन्धवम् ।
कार्षिकं स्वर्जिकाक्षारं कारवेल्लीरसप्लुतम् ।
गोमूत्रसैन्धवयुतं तस्य संस्रावणं परम् ॥ ४८५ ॥
तस्य रसाजीर्णस्य ॥
सिन्धुकर्कटिगौमूत्रं कारवेल्लीरसप्लुतम् ।
सौवर्चलसमायुक्तं रसाजीर्णे पिवेन्नरः ॥ ४८६ ॥
शरपुङ्खां सुरदालीं पटोलवीजं च काकमाचीं च ।
एतेषामेकतमं कथितमजीर्णे रसायने तु पिवेत् ॥ ४८७ ॥
हारीतं प्रत्यात्रेयः—
धान्यादीनां च सर्वेषां यवगोधूमषष्टिकाः ।
नेष्टास्तु विदलाः सर्वे मुक्त्वा मुद्गांस्तथाऽऽढकीम् ॥४८८॥
आज्यं स्नेहे मधुषु मधुरं चेक्षुजातं हि यत्स्यात्
श्रेष्ठं खण्डं बत वरसितं क्षारयुक्तं न तत्स्यात् ।
हिङ्गु श्रेष्ठं सकलसुरभौ सैन्धवं सिन्धुजेषु
रागे यूषाः प्रवररजनीसूरणाद्रौ च कन्दे ॥ ४८९ ॥
अशुभं पत्रशाकं तु सर्वाणि द्विदलानि च ।
संस्कृतानि विधानेन न स्युर्दोषकराणि च ॥ ४९० ॥
केशादिजुष्टं कृतशीतमुष्णं शाकावरान्नैर्र्वहुलं महोष्णम् ।
निशोषितं यल्लवणाधिकं च संत्याज्यमन्नं रससेविभिस्तत् ४९१
तक्रं हितं स्नेहगतं तथा दधि गोक्षीरजातं सकलं हितं स्यात् ।
मुक्त्वा च तैलाम्बुसुरारनालं स्यादम्बुपानं न हितं रसायने ॥
तैलं च चित्रा गिरिजाभवं यत्सुस्वादहीनं शटितामदग्धम् ।
विनष्टदुग्धं त्वशुभं च सर्वं खादेत्कदाचिन्न रसायनी नरः४९३

१.] आयुर्वेदप्रकाशः । ६१
पुष्पजातं फलं सर्वं मधुरं मांसशर्करम् ।
पाकयुक्तमशीर्णं च श्रेष्ठमुक्तं रसायने ॥ ४९४ ॥
असिताया सवत्सायाः प्राहुर्दुग्धं जलैः शृतम् ।
बलवृद्धिकरं वृष्यं श्रेष्ठमुक्तं रसायने ॥ ४९५ ॥
गव्यं सुदुग्धं सलिलार्थकेन संपाच्य तत्क्षीणजलं सुशीतम् ।
खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिबेत्सदेव ॥४९६॥
दिव्यान्तरिक्षं धौनिजं च कौपं स्वयंविशीर्णाद्रिशिलातलोद्भवम् ।
तडागजं सारसमौद्भिदं यत्तोयं मतं त्वष्टविधं मनोरमम् ॥४९७
अक्षारं स्वादु मृष्टं दिनमणिकिरणैर्वासरे तप्तमादौ
रात्रौ शीतांशुरोचिस्त्रिविधसुपवनान्दोलितं दोषहीनम् ।
कर्पूरै राजचम्पैरतिशयविमलैः पाटलैलासुपुष्पै-
स्त्वग्धान्यैर्वासितं यद्वरशिशिरजलं मृतसेवी पिवेत्॥४९८॥
श्रीनारायणसंज्ञकेन च बलातैलेन चान्येन वा
कार्यं मर्दनकोविदै रसभुजां मल्लैः सदा मर्दनम् ।
चातुर्जातलवङ्गकुङ्कुमनिशामुस्तासुमांसीभवै-
श्चूर्णैर्मृष्टमसूरमुद्गयवजैरुद्वर्तनं कारयेत् ॥ ४९९ ॥
सौख्योष्णैः सलिलैर्द्रुतं रसभुजां स्नानं सुजीर्णेऽशने
वातं पित्तकफौ निहन्ति बलकृत्त्वग्वर्णकृद्बृंहणम् ।
रूपद्योतिकरं मनःप्रशमनं कामस्य संवर्धनं
नारीणां च मनोहरं श्रमहरं देहे रसक्रामणम् ॥ ५०० ॥
अथ देहसिद्धिदानन्यानपि रसेन्द्रप्रयोगान् व्याचक्ष्महे ।
श्लोकद्वयं तत्र प्रागध्येतव्यं मृतपरीक्षार्थं; यथा—
कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा ।
योग्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ ५०१ ॥


१ 'पाकयुक्तमजीर्णं' ख. । २ 'अकृष्णाया' ग. । ३ धौनिजं नादेयम् ।
६

६२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
वल्मीके¹कूपतरुतलरथ्यादेवालयश्मशानेषु ।
जाता विधिनाऽपि हृता ओषध्यः सिद्धिदा न स्युः ॥५०२
अथ सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीं मुद्राम-
भिदध्मः—
अधस्ताप उपर्यापो मध्ये गन्धकपारदौ ।
यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥ ५०३ ॥
यदि कार्यमयोयन्त्रं तदा तं मृत्स्नया दिहेत् ।
समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् ॥ ५०४ ॥
जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः ।
चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ॥ ५०५ ॥
भवेत् पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ।
इत्याद्युक्तमेव ॥
भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ॥ ५०६ ॥
रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा ।
निष्कं खादेज्जरामृत्युं हन्ति गन्धामृतो रसः ॥ ५०७ ॥
समूलं भृङ्गराजं च छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५०८ ॥
पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहः ।
इति गन्धामृतो रसः ॥
मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ॥ ५०९ ॥
क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके ।
लेहयेन्मासषट्कं तु जरामृत्युविनाशनम् ॥ ५१० ॥
बाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् ।
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥ ५११ ॥
इति हेमसुन्दरो रसः ॥
१ 'वल्मीकानूप'-ग. ।

१. ] आयुर्वेदप्रकाशः । ६३
बलिः सूतो निम्बूरसविमृदितो भस्मसिकता-
द्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः ।
त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषाऽ-
वलीढो माषैकं दरयति समस्तं गदगणम् ॥ ५१२ ॥
जरां वर्षेकेन क्षपयति च पुष्टिं वितनुते
तनौ तेजस्कारं रमयति वधूनामपि शतम् ।
रसः श्रीमान्मृत्युञ्जय इति गिरीशेन कथितः
प्रभावं को वाऽन्यः कथयितुमपारं प्रभवति ॥ ५१३ ॥
लुङ्गाम्भोलवकदलित इति मातुलुङ्गद्रवं कणशो दत्त्वा
त्रिदिनं मर्दयेदित्यर्थः । इति मृत्युञ्जयो रसः ॥
शुद्धं रसं समविषं प्रहरं विमर्द्य
तद्गोलकं कनकचारुफले विधाय ।
दोलागतं पच दिनं विषमुष्टितोये
प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ ५१४ ॥
तत्सूतके गिरिशलोचनयुग्मगन्धं
युक्त्याऽवजार्य कुरु भस्मसमं च तस्य ।
वैक्रान्तभस्म जयपालनवांशकार्धं
सर्वैर्विषं द्विगुणीतं मृदितं च खल्वे ॥ ५१५ ॥
घस्रत्रयं कनकभृङ्गरसेन गाढ-
मावेश्य भाजनतले विषधूपभाजि ।
भृङ्गद्रवेण शिथिलं लघुकाचकूप्या-
मापूंर्य रुद्धवसनं सिकताख्ययन्त्रे ॥ ५१६ ॥
तां वासरार्धमुपदीप्य निसर्गशीतां
दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् ।
आनन्दसूतमखिलामयकुम्भिसिंहं
गद्याणकार्धसितया सह देहि पश्चात् ॥ ५१७ ॥

६४ आयुर्वेदग्रन्थमाला । [ अध्यायः
रोगानुरूपमनुपानमपि प्रकाशं
क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् ।
कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या
वैद्येश्वरेति विरुदं भज वैद्यराज ॥ ५१८ ॥
तथा द्विवारमिति पूर्ववदखिलं द्विः कुर्यादिति भावः । गि-
रिशलोचनयुग्मेति षड्गुणगन्धकं, युक्त्येति काचकूप्यादौ ॥
इत्यानन्दसूतरसः ॥
सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् ।
गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥
शुष्के यन्त्रे सत्त्वपातप्रधाने किट्टे सूतो बद्धतामेति नूनम् ।
बद्धं पश्चात्क्षारकाचप्रयोगाद्द्वेन्ना तुल्यं सूतमावर्तयेत्तु ॥ ५२० ॥
वक्त्रे खोटः स्थापितो वत्सरार्धं रोगान् सर्वान् हन्ति सौख्यं करोति।
यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्षये तत् ॥
लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे ।
वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ५२२
भार्गीमुण्डीकासमर्दारूषद्रवैर्गोलं पाचयेच्छ्लेष्मनुत्त्यै ।
कासे श्वासे तं च दद्यात्कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम्॥
यस्मिन् रोगे यः कषायोऽस्ति चोक्तस्तस्मिन्गोलं पाचयित्वा कषाये
दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव ।
उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात्॥
युक्त्या प्रागग्निसहत्वं कृत्वा पश्चाद्धमेदित्यर्थः ॥
इति प्राणिकल्पद्रुमगोलरसः ॥
रसगन्धकताग्राणि सिन्दुवाररसैर्दिनम् ।
मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ ५२५ ॥
रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् ।
तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥ ५२६ ॥

१. ] आयुर्वेदप्रकाशः । ६५
दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च ।
सिन्दुवारो 'निर्गुण्डी' इति भाषा । इति त्रिनेत्ररसः ॥
रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद्दिनम् ॥ ५२७ ॥
प्रतिलोहं सूततुल्यमष्टलोहं मृतं क्षिपेत् ।
ब्राह्मी जयन्ती निर्गुण्डी विषमुष्टिः पुनर्नवा ॥ ५२८ ॥
नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः ।
अटरूषः काकमाची द्रवैरासां विमर्दयेत् ॥ ५२९ ॥
गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् ।
रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥ ५३० ॥
अष्टलोहं स्वर्णादि । इति शार्दूलरसः ॥
सूतभस्म चतुर्भागं लोहभस्म तथाऽष्टकम् ।
मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥ ५३१ ॥
भावयेत्त्रिफलाक्वाथैस्तत्सर्वं भृङ्गद्रवैः ।
शिग्रुवह्निकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥ ५३२ ॥
सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः ।
निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥ ५३३ ॥
ब्रह्मायुः स्याच्चतुर्मासै रसोऽयममृतार्णवः ।
तिलं कोरण्टपत्राणि गुडेन भक्षयेदनु ॥ ५३४ ॥
कोरण्टः ‘कण्टसैरैया' इति भाषा । इति अमृतार्णवरसः ॥
वृष्यगणचूर्णतुल्यं तत्पुटपकं सिताद्विगुणम् ।
वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ ५३५ ॥
अथ शतावर्यादिवृष्यगणचूर्णमाह ।—शतावरी विदारी
गोक्षुर इक्षुरको वानरी बला कृष्णश्वेता मुसली मिस्रीक्षुरक-
बीजान्यतिबला इति वृष्यगणः । अत्र गन्धमूर्च्छितं रस-
मभ्रादिकं च ददति दाक्षिणात्याः । इदं रसायनाख्यचूर्णरत्नं;
अनुपेयं दुग्धादि ।

६६ आयुर्वेदीयग्रन्थमाला ।
विषं त्रिकटुकं मुस्ता हरिद्रा निम्बपल्लवम् ।
विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी कार्या योगवाही जयाभिधा ॥ ५३६ ॥
इति जयावटी ॥
गन्धं लोहं भस्म मध्वाज्ययुक्तं सेव्यं कर्षं वारिणा त्रैफलेन ।
शुभ्रे केशे कालिमा दिव्यदृष्टिः पुष्टिर्वीर्यं जायते गन्धलोहात् ॥
इति गन्धलोहम् ॥
अष्टांशहेमरजते शिखिमूषिकायां
संजार्य षड्गुणवलिं क्रमशोऽधिकं च ।
ऊर्ध्वं पयोऽग्निमधरे विनिधाय धीराः
सिद्धिं समग्रमतुलां स्वकरे कुरुध्वम् ॥ ५३८ ॥
अष्टांशेत्युपलक्षणं, अधिकमपि शतगुणपर्यन्तम् ॥
रसगन्धकलोहाभ्रं समं सूताङ्घ्रि हेम च ।
सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥ ५३९ ॥
एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ।
संस्थाप्य च तदुद्धृत्य सर्वरोगेषु योजयेत् ॥ ५४० ॥
एतद्रसायनवरं त्रिफलामधुसंयुक्तम् ।
तद्यथाग्निवलं खादेद्वलीपलितनाशनम् ॥ ५४१ ॥
क्षयमेकादशविधं कासं पञ्चविधं तथा ।
कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥ ५४२ ॥
शूलं श्वासं च मन्दाग्निं हिक्कां चैवाम्लपित्तकम् ।
व्रणान् सर्वान्नाढ्यवातं विसर्पं विद्रधिं तथा ॥ ५४३ ॥
अपस्मारं ग्रहोन्मादान् सर्वार्शांसि त्वगामयान् ।
क्रमेण शीलितो हन्ति वृक्षमिन्द्राशनिर्यथा ॥ ५४४ ॥

२.] आयुर्वेदप्रकाशः । ६७
पौष्टिकं वल्यमायुष्यं पुत्रप्रसवकारणम् ।
चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ ५४५ ॥
इति चतुर्मुखरसः ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायमाधवविरचितायुर्वेद-
प्रकाशे सूतसाधनाध्यायः प्रथमः समाप्तः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
अथोपरसाः कथ्यन्ते ।
गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं
राजावर्तकचुम्बकौ च स्फटिका शङ्खः खटी गैरिकम् ।
कासीसं रसकं कपर्दसिकतावोलाश्च कङ्गुष्ठकं
सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥
तुल्याः स्युर्यदि ते विशोध्य विधिना संसाधिताः सेविता-
स्तत्तद्रोगहरानुपानसहितैर्यौगैश्चिरायुःप्रदाः ॥ १ ॥
अथादौ गन्धकोत्पत्तिं प्रकारं शोधनस्य च ।
नामलक्षणसंयुक्तं वक्तुमर्हसि शङ्कर ॥ २ ॥
ईश्वर उवाच ।—
श्वेतद्वीपे पुरा देवि तीरे क्षीरपयोनिधेः ।
क्रीडन्त्याः सखिभिः सार्धमभवत् प्रसृतं रजः ॥ ३ ॥
बहुलं तद्रजोऽतीव सुगन्धि सुमनोहरम् ।
क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ॥ ४ ॥
धौतं यत् सखिभिस्तत्र तज्जातं गन्धकं रजः ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥ ५ ॥
निजगन्धेन तान् सर्वान् हर्षयन् देवदानवान् ।
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ६ ॥
१ ‘हर्षयामास दानवान्’ ग. ।

६८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।
ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥ ७ ॥
इत्ययं गन्धको नाम विख्यातः क्षितिमण्डले ।
बलिना सेवितः पूर्वं प्रभूतबलहेतवे ॥ ८ ॥
वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ।
वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ॥ ९ ॥
गन्धकत्वं च संप्राप्ता तस्माद्वलिवसा स्मृता ।
अथ गन्धकनामानि ।
गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि ।
सौगन्धिकश्च कथितो बलिर्बलिवसाऽपि च ॥ १० ॥
अथ गन्धकस्वरूपम् ।
चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः ।
रक्तो हेमक्रियासूक्तः शुकतुण्डनिभो वरः ॥ ११ ॥
पीतश्चामलसाराख्यः श्रेष्ठो रसरसायने ।
श्वेतोऽत्र खटिका प्रोक्ता लेपने लोहमारणे ।
*, लेपने व्रणादिलेपने ॥ अथ शुद्धगन्धकगुणाः कथ्यन्ते—
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ १२ ॥
गन्धाश्माऽतिरसायनः समधुरो ह्युष्णो विपाके कटुः
कण्डूकुष्ठविसर्पदद्रुदलनः संदीपनः पाचनः ।
आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो
गौरीपुष्पभवस्तथा कृमिहरः सत्त्वात्मकः सूतजित् ॥१३
अन्यच्च—
गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः ।
पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित् ।
हन्ति कुष्ठं क्षयं प्लीहकफवातान् रसायनः ॥ १४ ॥

२. ] आयुर्वेदप्रकाशः । ६९
अथ शोधितगन्धकगुणाः ।—
शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युजरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति हि ॥ १५ ॥
अथाशोधितगन्धकदोषः ।
अशुद्धगन्धः कुरुते च कुष्ठं तापं भ्रमं पित्तरुजं तथैव ।
रूपं सुखं वीर्यबलं निहन्ति तस्माद्विशुद्धो विनियोजनीयः ॥१६
अथ गन्धकशोधनं कथ्यते ।
गन्धः संक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः ।
अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥ १७ ॥
अथ शोधनयोग्यगन्धकलक्षणम् ।
शुकपिच्छसमच्छायो नवनीतसमप्रभः ।
मसृणः कठिनः स्निग्धः श्रेष्ठो गन्धक उच्यते ॥ १८ ॥
अथान्यमते शोधनम् ।—
लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् ।
तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥ १९ ॥
विद्रुतं गन्धकं ज्ञात्वा तनुवस्त्रे विनिक्षिपेत् ।
यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलः पतेत् ॥ २० ॥
शीतो निष्कासितो धौतो जलं वस्त्रेण शोषयेत् ।
एवं नैर्मल्यमापन्नो गन्धकः शुद्ध उच्यते ॥ २१ ॥
एवं वारत्रयं शोध्यो भिन्ने दुग्धे प्रयत्नतः ।
भक्षणार्थं हि भिषजा योगार्थं सकृदेव च ॥ २२ ॥
वस्त्रनिर्गलितशुद्धस्य प्रयोजनमाह वाग्भटः—
एवं संशोधितः सोऽयं पाषाणानम्बरे त्यजेत् ।
घृते विषं तुषाकारं स्वयं पिण्डत्वमेति च ॥ २३ ॥

७० आयुर्वेदीयग्रन्थमाला । [अध्यायः
अथास्य कूर्म्मपुटेन शोधनं विशदं यथा—
साज्यभाण्डे पयः क्षित्वा मुखं वस्त्रेण बन्धयेत् ।
गन्धकं पृष्ठदेशे तु श्लक्ष्णचूर्णितमर्पयेत् ॥
छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ॥ २४ ॥
सन्धिरोधः प्रकर्त्तव्यो भाण्डखर्परयोर्मृदा ।
भाण्डं निक्षिप्य भूगर्त्ते किंचिद्रक्षेद्बहिर्मुखम् ॥ २५ ॥
ज्वालयेत्खर्परस्योर्ध्वं जातवेदं वनोपलैः ।
ततः क्षीरे द्रुतं गन्धं शीतं धौतं जलेन तु ॥ २६ ॥
वस्त्रघृष्टं निर्जलं तु शुद्धं योगेषु योजयेत् ।
मतान्तरम्—
गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ।
सप्तधैवं भक्षणार्थं योगार्थं सकृदेव तु ॥ २७ ॥
इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् ।
अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ॥ २८ ॥
अथ गन्धककल्पार्थं गन्धकगन्धनाशनप्रकारः—
विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् ।
ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥ २९ ॥
पश्चाच्च पातयेत् प्राज्ञो जले त्रैफलसंभवे ।
जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥ ३० ॥
अथ गन्धकसेवनप्रकाराः ।
इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।
गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः॥३१
अत्र पथ्यं तु दुग्धोदनम् । इति गन्धककल्पः ॥
शुद्धो गन्धो निष्कमात्रः सदुग्धः सेव्यो मासं शौर्य्यवीर्य्यप्रवृद्ध्यै ।
षण्मासात्स्यात्सर्व्वरोगप्रणाशो दिव्या दृष्टिर्दीर्घमायुः सुरूपम् ३२
इति द्वितीयो गन्धककल्पः ॥

२. ] आयुर्वेदप्रकाशः । ७१
अथ गन्धकतैलम् ।—
आवर्त्यमाने पयसि दद्याद्गन्धकजं रजः ।
तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥ ३२ ॥
गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् ।
चूर्णीकृत्य पलानि पञ्च नितरां गन्धाश्मनो यत्नत-
स्तच्चूर्णं त्रिगुणे तु मार्कवरसे छायाविशुष्कीकृतम् ।
यत्स्याच्चूर्णमथाभयामधुघृतं प्रत्येकमेषां पलं
वृद्धो यौवनमेति मासयुगलं खादन्नरः प्रत्यहम् ॥३३॥
इति तृतीयो गन्धककल्पः ॥
यो गन्धाश्म विचूर्णितं पिबति ना तैलेन कर्षोन्मितं
नित्यं चोष्णजलावसेचनरतः काले यथा प्रत्यहम् ।
सप्ताहत्रितयान्निहन्ति सकलाः पामादिसर्वा रुजो
नित्याभ्यासवशाद्विनष्टसकलक्लेशोपतापः पुमान् ॥३४॥
इति चतुर्थो गन्धककल्पः ॥
यो वाऽप्युग्रमतिः सुचूर्णितमिदं गन्धाश्म कृष्णासमं
पथ्यातुल्पमपि प्रपूजितगुरुर्भूतेशपूजारतः ।
आहारादिषु यन्त्रणादिरहितः स्यात् पुष्टिवीर्याधिकः
प्रोत्फुल्लाम्बुजनेत्रयुग्मविलसच्चामीकराभासुरः ॥ ३५ ॥
इति पञ्चमो गन्धककल्पः ॥
कलांशव्योषसंयुक्तं शुद्धगन्धं विचूर्णितम् ।
अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्टयेत् ॥ ३६ ॥
सूत्रेण वेष्टयित्वाऽथ यामं तैले निमज्जयेत् ।
धृत्वा संदंशतो वर्तिं मध्ये प्रज्वालयेच्च ताम् ॥ ३७ ॥
द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने ।
तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ३८ ॥

७२ आयुर्वेदियग्रन्थमाला । [ अध्यायः
वल्लेन प्रमितं शुद्धं सूतेन्द्रं च विमर्दयेत् ।
अङ्गुल्या च सपत्रां तां द्रुतिं सूतं च भक्षयेत् ॥ ३९ ॥
करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ।
कासं श्वासं च शूलार्तिं ग्रहणीमपि दुर्धराम् ।
आमं विनाशयत्याशु लघुत्वं प्रकरोति च ॥ ४० ॥
इति षष्ठो गन्धककल्पः ॥
अन्यच्च—
शुद्धो बलिर्गोपयसा त्रिंवारं ततश्चतुर्जातगुडूचिकाङ्घ्रिः ।
पथ्याक्षधात्र्यौषधभृङ्गनीरैर्भाव्योऽष्टवारं पृथगार्द्रकेण ॥ ४१ ॥
सिद्धे सितां योजय तुल्यभागां रसायनं गन्धकसंज्ञितं स्यात् ।
धातुक्षयं मेहगणाग्निमान्द्यं शूलं तथा कोष्ठगतांश्च रोगान्॥४२
कुष्ठान्यथाष्टादश रोगसंघान्निवारयत्येव च राजरोगम् ।
कर्षोन्मिते सेवित एति मर्त्यो वीर्यं च पुष्टिं बलमग्निदीप्तिम्॥४३
वमनै रेचनैः पूर्वं देहशुद्धिं समाचरेत् ।
जाङ्गलानि तु मांसानि छागलानि प्रयोजयेत् ॥ ४४ ॥
लवणाम्लानि शाकानि द्विदलानि तथैव च ।
स्त्रियश्चारोहणं यानं सदा चैतानि वर्जयेत् ॥ ४५ ॥
इति सप्तमः सर्वोत्तमो गन्धकरसायनकल्पः ॥
वातारितैलसंयुक्तस्त्रिफलाकौशिकेन तु ।
गन्धको रससंयुक्तो जराव्याधिविनाशनः ॥ ४६ ॥
मासमात्रप्रयोगेन शृणु वक्ष्यामि तद्गुणान् ।
अर्शो भगन्दरश्चैव तथा श्लेष्मसमुद्भवाः ॥ ४७ ॥
नश्यन्ति व्याधयः सर्वे मासेनेकेन गन्धकात् ।
षण्मासस्य प्रयोगेण देवतुल्यो भवेन्नरः ॥ ४८ ॥
१ ‘विशोषयत्याशु’ ग. । २ ‘विभाव्यः’ ग. । ३ ‘गन्धकसंज्ञकं’ ग. ।

२. ] आयुर्वेदप्रकाशः । ७३
हंसवर्णाश्च ये केशा वलिश्चैव प्रलम्बिनी ।
चला दन्ता मन्ददृष्टिर्बलशुक्रादिसंक्षयः ॥ ४९ ॥
निर्जित्य यौवनं याति भ्रमरा इव मूर्धजाः ।
दिव्यदृष्टिर्महाप्राणो वराह इव कर्णयोः ॥ ५० ॥
चक्षुषा तार्क्ष्यतुल्योऽसौ बलेन बलविक्रमः ।
दृढदन्तो वज्रकायो द्वितीय इव शङ्करः ।
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ५१ ॥
इत्यष्टमो गन्धककल्पः ॥
गन्धकस्य पलं चैकं रसस्यार्धपलं तथा ।
कुमारीरससंघृष्टं दिनैकं गोलकीकृतम् ॥ ५२ ॥
अन्धमूषाधृतं ध्मातं लेहयेन्मधुसर्पिषा ।
मासमात्रप्रयोगेण जरादारिद्र्यनाशनम् ॥ ५३ ॥
इति नवमो गन्धककल्पः ॥
त्रिफला गन्धकं भृङ्गं समभागानि कारयेत् ।

७४ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः ।
शम्याकमूलजरसैर्मर्दितोऽखिलरोगहा ॥ ५८ ॥
इति द्वादशो गन्धककल्पः ॥
शम्याकमूलस्वरसैः संघृष्टो गन्धकोत्तमः ।
लिप्तो देहे ध्रुवं खर्जुकुष्ठपामादिनाशनः ॥ ५९ ॥
इति कण्ड्त्यां त्रयोदशो गन्धककल्पः ॥
द्विनिष्कप्रमितो गन्धः पीतस्तैलेन शोधितः ।
पश्चान्मरिचतैलाभ्यामपामार्गजलेन च ॥ ६० ॥
पेषयित्वा बलिः सर्वदेहे लिप्तः प्रयत्नतः ।
घर्मे तिष्ठेत्ततो रोगी मध्याह्ने तक्रभक्तकम् ॥ ६१ ॥
भुञ्जीत रात्रौ सेवेत वह्निं प्रातः समुत्थितः ।
महिषीच्छगणैर्देहं संलिप्य स्नानमाचरेत् ।
शीतोदकेन पामादिखर्जुकुष्ठं प्रशाम्यति ॥ ६२ ॥
इति पामाखर्जुकुष्ठादौ चतुर्दशो गन्धककल्पः ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिता-
युर्वेदप्रकाशे द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
अथ तृतीयोऽध्यायः ।
अथ हिङ्गुलस्य नामलक्षणगुणोत्पत्तिशोधनानि ।
हिङ्गुलं दरदं म्लेच्छं हिङ्गूलश्चूर्णपारदम् ।
सुरङ्गं रसगर्भं च बर्बरं रक्तमप्यथ ॥ १ ॥
दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः ।
हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥ २ ॥
चर्मारः शुकवर्णः स्यात्सपीतः शुकतुण्डकः ।
जपाकुसुमसंकाशो हंसपादो महोत्तमः ॥ ३ ॥