आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 86, कुल 232 में से
संदर्भ में पढ़ें२.] आयुर्वेदप्रकाशः । ६७
पौष्टिकं वल्यमायुष्यं पुत्रप्रसवकारणम् ।
चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ ५४५ ॥
इति चतुर्मुखरसः ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायमाधवविरचितायुर्वेद-
प्रकाशे सूतसाधनाध्यायः प्रथमः समाप्तः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
अथोपरसाः कथ्यन्ते ।
गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं
राजावर्तकचुम्बकौ च स्फटिका शङ्खः खटी गैरिकम् ।
कासीसं रसकं कपर्दसिकतावोलाश्च कङ्गुष्ठकं
सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥
तुल्याः स्युर्यदि ते विशोध्य विधिना संसाधिताः सेविता-
स्तत्तद्रोगहरानुपानसहितैर्यौगैश्चिरायुःप्रदाः ॥ १ ॥
अथादौ गन्धकोत्पत्तिं प्रकारं शोधनस्य च ।
नामलक्षणसंयुक्तं वक्तुमर्हसि शङ्कर ॥ २ ॥
ईश्वर उवाच ।—
श्वेतद्वीपे पुरा देवि तीरे क्षीरपयोनिधेः ।
क्रीडन्त्याः सखिभिः सार्धमभवत् प्रसृतं रजः ॥ ३ ॥
बहुलं तद्रजोऽतीव सुगन्धि सुमनोहरम् ।
क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ॥ ४ ॥
धौतं यत् सखिभिस्तत्र तज्जातं गन्धकं रजः ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥ ५ ॥
निजगन्धेन तान् सर्वान् हर्षयन् देवदानवान् ।
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ६ ॥
१ ‘हर्षयामास दानवान्’ ग. ।