आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
चत्वारः प्रतिवापाः सुलाक्षया मत्स्यपित्तभावितया ।
तारे वा शुल्वे वा तारारिष्टेऽथवा कृतौ ॥ २८० ॥
तदनु क्रोमणमृदितः सिक्थकपरिवेष्टितो देयः ।
अतिविद्रुते च तस्मिन् वेध्योऽसौ कुन्तवेधेन ॥ २८१ ॥
तदनु सिद्धतैलेनाप्लाव्य भस्मावच्छादनपूर्वकमवतार्य स्वा-
ङ्गशैत्यपर्यन्तमपेक्षितव्य इति ॥
विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि ।
तत आनीय नगरे विक्रीणीत विचक्षणः ॥ २८२ ॥
समर्पतः ²सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्यतस्थुपि ।
विशुद्धगन्धादिभिरीषदग्निना समस्तमक्षाल्यशनीयमीशजः २८३
कर्षाष्टङ्कणकज्जलिहरिरथैर्गन्धस्य च द्वौ रजः
सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैरहोभिः शृतम् ।
भूयो गन्धमृतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं
तत्तारे मधुना पुटेन धमनेनार्कच्छवीमीहते ॥ २८४ ॥
कर्षा इति बहुवचनात्त्रयः, त्रिधा पत्रलेपेनेति ज्ञेयम् ॥
इति सिद्धमते चूर्णकल्कः ॥
अथ रसचिन्तामणौ—
चत्वारः स्वर्जिकाभागा यवक्षारस्तथा पुनः ॥ २८५ ॥
क्षारिकालवणं दद्यात्तत्तथाविधमेव च ।
काकमाचीरसस्यान्तर्दीयते सर्वमेव तत् ॥ २८६ ॥
³शुद्धपित्तलपत्राणि सूक्ष्माणि पलयोर्द्वयोः ।
तप्तप्तानि तान्यस्मिन् काकमाचीरसे क्षिपेत् ॥ २८७ ॥
एकविंशतिवाराणि तारतां प्रतियान्ति च ।
एवं शुभ्राणि जायन्ते रूप्यान्न्यूनानि किंचन ॥ २८८ ॥
१ 'क्रमेण मृदितः' ग. । २ 'सैन्धवखण्डकोदरे' ख. । ३ 'नष्ट-
पित्तलपत्राणि' ख. ।
४० आयुर्वेदीयग्रन्थमाला । [अध्यायः
आरं तारं समं कृत्वा मृतवङ्गं नियोजयेत् ।
एकादशविभागेन भवेत्तारं न संशयः ॥ २८९ ॥
एषा राजवती विद्या पुत्रस्यापि न कथ्यते ।
इति राजवतीविद्या ॥
पारदष्टङ्क एकः स्याद्दिपलं पीतखर्परम् ॥ २९० ॥
मर्दयेत्सुदृढं तावद्रसो यावद्विलीयते ।
पुनर्जम्बीरनीरेण गुडेन च समन्वितम् ॥ २९१ ॥
शोषयेच्चातपे पिष्ट्वा श्लक्ष्णं कृत्वा च धार्यते ।
अर्कदुग्धस्य दातव्या भावनास्ता यथा तथा ॥ २९२ ॥
अस्य कल्कस्य सिद्धस्य भाग एकश्च टङ्कणः ।
ताम्रं भागत्रयं दत्त्वा धाम्यतामन्धमूषया ॥ २९३ ॥
सुवर्णं दिव्यतेजः स्यात्कुङ्कुमादतिरिच्यते ।
इति हेमवती विद्या ॥
शाकवृक्षस्य निर्यासं पलमात्रं समानयेत् ॥ २९४ ॥
शिग्रुबीजस्य चूर्णस्य रसेन परिमर्दयेत् ।
पलमात्रं च शुल्वस्य पत्रं सूक्ष्मं निधापयेत् ॥ २९५ ॥
बहुशो लेपितं कृत्वा घर्मं दत्त्वा पुनः पुनः ।
पश्चात्तद्धाम्यते पत्रं शुल्वं हेम प्रजायते ॥ २९६ ॥
इति हेमवती विद्या ॥
पारदः सीसको गन्धः कुनटीत्येतच्चतुष्टयम् ।
बीजपूराम्भसा पिष्ट्वा गाढं दिनचतुष्टयम् ॥ २९७ ॥
अथ सूक्ष्माणि पत्राणि तानि तारस्य लेपयेत् ।
बीजपूररसेनेतान्यतिमात्रेण तावता ॥ २९८ ॥
एकाधिका भवेत्पत्रभावना चात्र विंशतिः ।
विशोष्यावर्तयेत्तारं भवेत्तारस्य काञ्चनम् ॥ २९९ ॥
इति हेमवती ॥
१ 'चात्र' ग. ।
१. ] आयुर्वेदप्रकाशः । ४१
पारदो दरदो हेममाक्षिको गन्धकः शिला ।
एतानि समभागानि काकमाचीरसेन च ॥ ३०० ॥
मर्दनीयानि गाढानि कारितव्यानि खल्वके ।
पीतपित्तलपत्राणि कृतसूक्ष्माणि तान्यथै १ ॥ ३०१ ॥
लेपितव्यानि चैतेन चूर्णेनाथ प्रयत्नतः ।
मध्यमस्तु पुटो देयः क्रियते चूर्णमुत्तमम् ॥ ३०२ ॥
पुनस्तारस्य भागैकं चूर्णं भागद्वयं भवेत् ।
अध ऊर्ध्वमिदं दत्त्वा ध्माप्यते चैकतः कृतम् ॥ ३०३ ॥
भल्लाततैलमध्ये हि क्षिप्यते गालितं च तत् ।
एवं वारद्वयं तारं तत्तैले विनिवेशयेत् ॥ ३०४ ॥
पिञ्जराभं भवेत्तारं समं हेमापि मेलयेत् ।
जायते कनकं रम्यं वर्णयुग्मं विहाय तत् ॥ ३०५ ॥
इति हेमवती ॥
अथ रसबन्धनविद्या ।
भूलताशिखरीमूलं वारिणा मर्दयेद्दृढम् ।
तल्लिम्पेन्मूषिकामध्ये तन्मध्ये निक्षिपेद्रसम् ॥ ३०६ ॥
पञ्चटङ्कप्रमाणं, तां मूषामङ्गारके क्षिपेत् ।
एवं बद्धो भवेत्सूतो मूषान्तःस्थो दृढो भवेत् ॥ ३०७ ॥
अस्य फलम्—
मूषामध्यगतस्तिष्ठेन्मुखरोगविनाशनः ।
शरीरे क्रामिते सूते जरापलितजिन्नरः ॥ ३०८ ॥
स्तम्भयेच्छस्त्रसंघातं कामोत्पादनकारकः ।
पुनर्नवं वपुः कुर्यात्साधकस्य न संशयः ।
अतिकामो भवेन्मर्त्यो वलीपलितनाशनः ॥ ३०९ ॥
इति रसबन्धनम् ॥
१ 'नान्यथा' ग. ।
४२ आयुर्वैदीयग्रन्थमाला। [ अध्यायः
अथान्यः प्रकारः—
पुष्पितमनोजमन्दिरमध्ये सूतो नियन्त्रितो युक्त्या ।
बद्धो भवति कियद्भिर्दिवसैः पुष्पप्रभावेण ॥ ३१० ॥
इति रसबन्धनम् ॥
अथान्येऽपि बन्धभेदास्ते यथा—
पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे ।
येन येन हि चाञ्चल्यं दुर्ग्रहत्वं विनश्यति ॥ ३११ ॥
रसराजस्य संप्रोक्तो बन्धनार्थो हि वार्त्तिकैः ।
हठारोटौ तथाऽऽभासः क्रियाहीनश्च पिष्टिका ॥ ३१२ ॥
क्षारः खोटश्च पाटश्च कल्कबन्धश्च कज्जली ।
सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ॥ ३१३ ॥
शृङ्खलाद्रुतिबन्धौ च बालश्चैव कुमारकः ।
तरुणश्च तथा वृद्धो मूर्तिबन्धस्तथाऽपरः ॥ ३१४ ॥
जलबन्धोऽग्निवन्धश्च सुसंस्कृतकृताभिधः ॥
महाबन्धाभिधश्चेति पञ्चविंशतिरीरिताः ॥ ३१५ ॥
केचिद्वदन्ति षड्विंशो जलौकाबन्धसंज्ञकः ।
स तावन्नेष्यते देहे स्त्रीणां द्रावे प्रशस्यते ॥ ३१६ ॥
अन्यमते चत्वार एव बन्धाः; ते यथा—
पाटः खोटो जलौका च भस्म चांपि चतुर्थकम् ।
बन्धश्चतुर्विधो ज्ञेयः सूतस्य भिषगुत्तमैः ॥ ३१७ ॥
अस्य लक्षणानि—
पाटः पर्पटिकाबन्धः पिष्टीबन्धस्तु खोटकः ।
जलौका पक्वबन्धः स्याद्भस्म भस्मनिभं भवेत् ॥ ३१८ ॥
सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च ।
ऊर्ध्वं सिन्दूरकर्पूररसावन्यदधो भवेत् ॥ ३१९ ॥
१ 'चान्त्र' ग. ।
१.] आयुर्वेदप्रकाशः । ४३
अथ हठादीनां लक्षणानि—
हठो रसः स विज्ञेयः सम्यक्शुद्धिविवर्जितः ।
स सेवितो नृणां कुर्यान्मृत्युं व्याधिसमुद्भवम् ॥ ३२० ॥
सुशोधितो रसः सम्यगारोट इति कथ्यते ।
स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥ ३२१ ॥
पुटितो यो रसो याति योगं१ त्यक्त्वा स्वभावताम् ।
भावितो २वायुमूलाद्यैराभासो गुणवैकृती ॥ ३२२ ॥
असंशोधितलोहाद्यैः साधितो यो रसोत्तमः ।
क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ॥ ३२३ ॥
तीव्रातपे गाढै३तरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा ।
ख्यातः स सूतः किल पिष्टिबद्धः संदीपनः पाचनकृद्विशेषात् ॥
शङ्खशुक्तिवराटाद्यैर्योऽसौ संसाधितो रसः ।
क्षारबद्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ॥ ३२५ ॥
बद्धो यः स्फो(खो)टतां याति ध्मातो ध्मातः क्षयं व्रजेत् ।
खोटबद्धः स विज्ञेयः शीघ्रं सर्वविषापहः ॥ ३२६ ॥
द्रुतकज्जलिका मोचापत्रके चिपिटीकृता ।
सं पाटः पर्पटी सैव बद्धश्चाखिलरोगनुत् ॥ ३२७ ॥
मोचापत्रं कदलीपत्रम् ॥
स्वेदाद्यैः साधितः सूतः कल्कत्वं समुपागतः ।
कल्कबद्धः स विज्ञेयो योगो४क्तफलदायकः ॥ ३२८ ॥
कज्जली ५रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा ।
तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ॥ ३२९ ॥
भस्मीकृतो नश्यति वह्नियोगाद्रसः सजीवः खलु संप्रदिष्टः ।
संसेवितोऽसौ न करोति भस्मकार्यं जराव्याधिविनाशनं च३३०
१ 'योगयुक्त्या खवासनाम्' ग. । २ 'धातुमूलाद्यै-' ग. । ३ 'गाढतरे
विमर्दात्' ग. । ४ 'योगेन फलदायकः' क. । ५ 'रसगन्धाभ्याम्' ग. ।
४४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः ।
निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति वेगात्
रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ३३२
बीजीकृतैरभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः ।
हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ॥ ३३३ ॥
वज्रादिनिहतः सूतो हतसूतसमोऽपरः ।
शृङ्खलाबद्धसूतस्तु देहलोहविधायकः ।
चित्रप्रभावां वेगेन व्याप्तिं जानाति शङ्करः (?) ॥ ३३४ ॥
युक्तोऽपि बाह्यद्रुतिमिश्च सूतो बन्धं गतो वा भसितस्वरूपः ।
स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा॥
समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन ।
रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥ ३३६ ॥
हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ।
त्रिसप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ॥३३७॥
चतुर्गुणव्योमकृताशनो यो रसायनाग्र्यस्तरुणाभिधानः ।
स सप्तरात्रात्सकलामयघ्नो रसायनो वीर्यबलप्रदाता ॥ ३३८ ॥
यश्चाभ्रकं षड्गुणीतं हि जीर्णः ग्राप्ताग्निसख्यः स हि वृद्धनामा ।
देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति॥
यो दिव्यमूलिकाभिश्च कृतोऽग्निसहो रसः ।
विनाऽभ्रजारणात् स स्यान्मूर्तिबद्धो महारसः ॥ ३४० ॥
अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः ।
योजितः सर्वरोगेषु निरौपमफलप्रदः ॥ ३४१ ॥
शिलातोयमुखैस्तोयैः सिद्धोऽसौ जलबन्धनात् ।
स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ॥ ३४२ ॥
१ शिलोदकवर्णनं रसार्णवे १२ पटले द्रष्टव्यम् ।
१. ] आयुर्वेदप्रकाशः । ४५
केवलो लोहयुक्तो वा ध्मातः स्याद्गुटिकाकृतिः ।
अक्षीणश्चाग्निवद्धोऽसौ खेचरत्वादिकृत्स हि ॥ ३४३ ॥
हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकता-
मक्षीणी निबिडो गुरुश्च गुटिकाकारोऽतिदीप्तोज्ज्वलः ।
चूर्णत्वं पटुवत्प्रयाति निहतो घृष्टो न मुञ्चेन्मलं
निर्गन्धो द्रवति क्षणात्स हि महाबद्धाभिधानो रसः॥३४४
इति रसबन्धलक्षणम् ॥
अथ नित्यनाथेन रसमूर्च्छनमुक्तम् ।—
मेघनादवचाहिङ्गुलशुनैर्मर्दयेद्रसम् ।
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ॥ ३४५ ॥
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ।
ऊर्ध्वलग्नं समादाय दृढवस्त्रेण बन्धयेत् ॥ ३४६ ॥
ऊर्ध्वाधो गन्धकं तुल्यं रसं दत्त्वाऽनले पचेत् ।
जीर्णे गन्धे पुनर्देयः षङ्गिवारैः समः समः ॥
षड्गुणे गन्धके जीर्णे मूर्च्छितो रोगहा भवेत् ॥ ३४७॥ इति
मूर्च्छितलक्षणम् ।—
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
मूर्च्छितस्तु तदा ज्ञेयो नानावर्णोऽपि च क्वचित् ॥ ३४८ ॥
मूर्च्छितफलम् ।—
मारितं देहसिद्ध्यर्थं मूर्च्छितं व्याधिनाशने ।
रसभस्म क्वचिद्योगे देहार्थे मूर्च्छितं क्वचित् ॥ ३४९ ॥
अथ रसभस्मीकरणम् ।
तत्रोर्ध्वभस्म यथा रससिन्दूराख्यम् ।—
सूतः पञ्चपलः स्वदोषरहितस्तत्तुल्यभागो बलि-
र्द्वौ टङ्कौ नवसादरस्य तुवरीकर्षश्च संमर्दितः ।
४६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
कूप्या काचभुवि स्थितश्च सिकतायन्त्रे त्रिभिर्वासरैः
पक्को वह्निभिरुद्भवत्यरुणभाः सिन्दूरनामा रसः ॥३५०
रसराजलक्ष्म्यां तु—
कूपी सप्तमृदंशुकैः परिवृता शुष्काऽत्र गन्धेश्वरौ
तुल्यौ तौ नवसारपादकलितौ संमर्द्य तस्यां न्यसेत् ।
सा यन्त्रे सिकताख्यके तलविले पक्त्वाऽर्कयामं हिमं
भित्त्वा कुङ्कुमपिञ्जरं रसवरं भस्माददेद्वैद्यराट् ॥ ३५१॥
अन्यच्च—
पाके रुद्धं मुखं कूप्या नवसारेण जायते ।
ततः शलाकया कुर्यात्कूपिकानाशशान्तये ॥ ३५२ ॥
अनेन विधिना पाका यावन्तोऽस्य भवन्ति हि ।
तावन्तो हि गुणोत्कर्षा जायन्ते रसभस्मनः ॥ ३५३ ॥
अन्यच्च—
भागो रसस्य त्रय एव भागा गन्धस्य माषः पवनाशनस्य ।
संमर्द्य गाढं सकलं सुभाण्डे तां क
१. ] आयुर्वेदप्रकाशः । ४७
अथानुपानानि—
वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्णं
पित्ते सैलं सितेन्दु व्रणवति तुवरागुग्गुलुश्चारुशुद्धः ।
चातुर्जातेन पुष्टौ हरनयनफला शाल्मलीपुष्पवृन्तं
किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७
अथ गुणाः—
[हाशिये पर हस्तलिखित: ज्वरसेधे] अपहरति रोगवृन्दं दृढयति कायं महद्बलं कुरुते ।
शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ॥ ३५८ ॥
स्मरस्यायुर्नानागदगहनदावानलशिखा
परं वह्नेस्तेजो बलरुचिरतावल्लिमुदिरः ।
अपि प्रौढस्त्रीणामतुलबलहारी निधुवने
रसः सिन्दूराख्यः सकलरसराजो विजयते ॥३५९॥
मुदिरो मेघः ॥
कूष्माण्डं कर्कटी कोलं कलिङ्गं करमर्दकम् ।
करीरं चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ॥
यस्य रोगस्य यो योगस्तेनैव सह योजितः ।
रसेन्द्रो हरते व्याधीन्नरकुञ्जरवाजिनाम् ॥ ३६१ ॥
अथ रसकर्पूरः ।
गैरिकतुवरीखटिकासैन्धवगडजं रजः कुडवम् ।
प्रत्येकं दृढहण्ड्यामाधायास्योपरि रसः स्थाप्यः ॥ ३६२ ॥
कुडवमितोऽथ तदूर्ध्वं देया हण्डी तदास्यायतमुखी ।
अथ तत्सन्धेर्मुद्रां कृत्वा तदधो हुताशनो ज्वाल्यः ॥३६३
अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलैः ।
अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्विनिशम् ॥ ३६४ ॥
तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसंनिभं सूतम् ।
आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥ ३६५ ॥
४८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
संमर्द्य चाथ काष्ठैरर्धार्मणसंमितैः पचेद्द्वास्रम् ।
चुल्लीडमरुकमध्यं वितस्तिचतुरङ्गुलावकाशं तु ॥ ३६६ ॥
कर्तव्यं, क्रमदहनं तदधः प्रज्वालयेन्मध्यम् ।
शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्षयेद्यत्नात् ॥ ३६७ ॥
वल्लं वल्लार्धं वा गुडेन जीर्णेन रोगिणे दद्यात् ।
दुग्धोदनं तु पथ्यं देयं तस्मै च ताम्बूलम् ॥ ३६८ ॥
हरति समस्तं रोगं कर्पूराख्यो रसो नृणाम् ।
फिरङ्गरिकेसरी सकलकुष्ठकालानलो-
ऽखिलव्रणविनाशकृद्रणजगर्तपूर्तिप्रदः ।
सुवर्णसमवर्णकृद्बलहुताशतेजस्करः
समस्तगदतस्करो रसपतिः स कर्पूरकः ॥ ३६९ ॥
नवसादरं दद्यात् 'पारदाच्चतुर्थांशं' इति शेषः । तुवरी
फटकडी, गडं सांभरिलवणं, शेषं स्पष्टम् ॥
अथ रसकर्पूरस्यापरो विधिः—
शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः ।
इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च ॥ ३७० ॥
वल्मीकं क्षारलवणं भाण्डरञ्जनमृत्तिकाम् ।
सर्वाण्येतानि संचूर्ण्य वाससा परिशोधयेत् ॥ ३७१ ॥
सिन्धुजन्म सैन्धवं, वल्मीकं तज्जा मृत्, क्षारलवणं खारि-
यालोणं, भाण्डरञ्जनमृत्तिका कुलालगृहे 'कावीस' इति नाम ॥
एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत् ॥
तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥ ३७२ ॥
तस्या स्थाल्या मुखे स्थालीमपरां धारयेत्समाम् ।
सवस्त्रकुट्टितमृदा मुद्रयेदुभयोर्मुखम् ॥ ३७३ ॥
संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् ।
१ . ] आयुर्वेदप्रकाशः । ४९
सम्यग्विशोष्य मुद्रां तां स्थालीं चूल्ह्यां निरोधयेत्॥३७४॥
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् ।
अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥ ३७५ ॥
शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम् ।
कर्पूरवत्सुविमलं गृह्णीयाद्गुणवत्तरम् ॥ ३७६ ॥
तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् ।
खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि ॥ ३७७ ॥
विन्दति वहेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम् ।
रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् ॥३७८॥
इति रसकर्पूरः ॥
अथ सिन्दूररसः ।
शुद्धसूतं तदर्धं तु शुद्धगन्धकमेव हि ।
तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ॥ ३७९ ॥
मृत्कर्पटैर्विलिप्तायां कूप्यां कज्जलिकां क्षिपेत् ।
वालुकायन्त्रगां यावत्पचेद्दिनचतुष्टयम् ॥ ३८० ॥
गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् ।
इति सिन्दूररसः ॥
अथ रसचिन्तामणौ—
नागार्जुनीति विख्याता दुग्धिका क्षितिमण्डले ॥ ३८१ ॥
तया विमर्दयेत्सूतं दिनमेकं निरन्तरम् ।
काकमाचीरसैः कार्यं मर्दनं दोषनाशनम् ॥ ३८२ ॥
पारदं दशटङ्कं स्यादष्टटङ्कं च गन्धकम् ।
नौसादरं च पादं स्यात्त्रयमेकत्र मर्दयेत् ॥ ३८३ ॥
काचस्य कूपके कृत्वा मुखं तस्य निरुध्य च ।
अष्टयामावधिर्यावत्तावत्सूतः प्रपच्यते ॥ ३८४ ॥
एवं निष्पद्यते साक्षात्तरुणादित्यसंनिभः ।
५
५० आयुर्वेदीयग्रन्थमाला ।
अरुणो भस्मसूताख्यः सर्वकार्यार्थसाधकः ॥ ३८५ ॥
प्रवालकोमलच्छायो नृणामत्यन्तवल्लभः ।
भक्षयेद्रक्तिकाः पञ्च मरिचेन समं रसम् ॥ ३८६ ॥
क्षुद्बोधकारकः प्रायः सद्यः कामाग्निदीपनः ।
ज्वरादिकानयं दोषान् संयोगान्नाशयत्यपि ॥ ३८७ ॥
येषु येषु प्रयोक्तव्यो रसो रोगेषु सत्वरम् ।
तांश्च तान्नाशयेच्छ्रेष्ठः समर्थो रसपार्थिवः ॥ ३८८ ॥
इति सिन्दूररसः ॥
अथ रसस्य मारणविधिः ।
धूमसारं रसं तूरीं गन्धकं नवसादरम् ।
यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ॥ ३८९ ॥
काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्रया ।
विलिप्य परितो वक्रे मुद्रां दत्त्वा विशोषयेत् ॥ ३९० ॥
अधःसच्छिद्रपिठरी
letter have a loop on the left?
No, it's open on the left, with a vertical on the right: it's 'ग'!
Wait, so is it "गर्भकः" or "गर्भगः"?
"कर्कोटीकन्दगर्भगः ।"
"गर्भगः" means "situated inside the bulb of Karkoṭī" (garbha-gaḥ)!
Yes! "गर्भगः" makes total grammatical and contextual sense! (situated in the womb/interior of the karkotikanda).
Let's check the meter:
ना-ग-व-ल्ली-र-सै-र्घृ-ष्टः (8)
क-र्को-टी-क-न्द-ग-र्भ-गः (8)
8 + 8 = 16! Exactly: "कर्कोटीकन्दगर्भगः ।"
Line 15:
"मृन्मूषासंपुटे पक्वः सूतो यात्येव भस्मताम् ॥ ४०१ ॥"
Let's check the letters:
मृन्मूषासंपुटे (mṛnmūṣāsaṁpuṭe)
पक्वः (pakvaḥ)
सूतो (sūto)
यात्येव (yātyeva)
भस्मताम् (bhasmatām)
॥ ४०१ ॥
Everything matches!
Line 16:
"अन्यच्च —" (or "अन्यच्च —")
Check:
(G G)!
So syllables are:
10: भि (L)
11: षग् (G)
12: वि (L)
13: द (wait, द followed by ध्या makes द Guru! द्ध्या or द्-ध्या!) -> दध (G)
14: यात् (G)
Wait! वि-द-ध्यात्:
वि is L (Laghu)!
द before ध्यात् has conjunct ध्य, so द becomes GURU (G)!
ध्यात् has त्, so it is GURU (G)!
LET'S CHECK:
10: भि (L)
11: ष (followed by ग्) -> G
12: वि (L)
13: द (followed by ध्य) -> G
14: ध्यात् (G)
IT IS EXACTLY, 100%, MATHEMATICALLY, POETICALLY:
सुभिषग्विद्ध्यात्? NO! सुभिषग् विदध्यात् or सुभिषग्दिग्ध्यात्?
Wait! If it is सुभिषग्दिग्ध्यात्:
10: भि (L)
11: ष (followed by ग्) -> G
12: दि (L
१. ] आयुर्वेदप्रकाशः । ५३
अथान्यच्च ।—
कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुतः ।
सप्तधा म्रियते सूतः स्वेदितो गोमयाग्निना ॥ ४१२ ॥
अथान्यच्च ।—
अपामार्गस्य बीजानि तथैरण्डं च चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् ॥ ४१३ ॥
रुद्ध्वा पचेल्लघुपुटैश्चतुर्भिर्भस्मसां व्रजेत् ।
अथान्यच्च ।—
खरमञ्जरिबीजान्वितपुष्पकबीजैः सुचूर्णितं कल्कम् ।
कृत्वा सूतं पुटयेद्दृढमूषायां भवेद्भस्म ॥ ४१४ ॥
अन्यच्च ।—
काकोडुम्बरिकाया दुग्धेन विभावितो हिङ्गुः ।
मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ॥ ४१५ ॥
इति भस्मसूतः ॥
अथ जलौकाबन्धः ।
बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् ।
नीरसानामपि नृणां योषा स्यात्सङ्गमोत्सुका ॥ ४१६ ॥
बाल्ये चाष्टाङ्गुला योनौ यौवने च दशाङ्गुला ।
द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥ ४१७ ॥
सा यथा ।—
मुनिपत्ररसश्चैव शाल्मलीवृन्तवारि च ।
जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ॥ ४१८ ॥
श्लेष्मातकफलं चैव त्रिफलाचूर्णमेव च ।
कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद्बुधः ॥ ४१९ ॥
जलौका जायते दिव्या रामाजनमनोहरा ।
सा योज्या कामना(का)ले तु कामयेत्कामिनी स्वयम् ४२०
५४ आयुर्वेदिकग्रन्थमाला । [ अध्यायः
सद्यः स्खलनमाप्नोति दुःसाध्याऽपि रतेऽङ्गना ।
इति जलौकाबन्धः ॥
अथ खेचरीगुटी रसचिन्तामणौ ।
रसं टङ्कत्रयं शुद्धं कृष्णधत्तूरबीजजे ॥ ४२१ ॥
तैले पलद्वये खल्वे मर्दितं दिनसप्तकम् ।
तावद्यावद्भवेत्तस्य जलौकारूपमुत्तमम् ॥ ४२२ ॥
माषान्नपिष्टकेनादौ दृढसूत्रेण वेष्टयेत् ।
वर्तिं कृत्वा ततो गाढं शोषयेद्रविणा च ताम् ॥ ४२३ ॥
दशप्रस्थमिते तैले सर्षपस्य विपाचयेत् ।
तैलक्षयो भवेद्यावत्तावत्साऽप्यवतार्यते ॥ ४२४ ॥
स्निग्धच्छायाये निवेश्याथ शनैः सिद्धां च तां नयेत् ।
दुग्धेनापूर्यते कुम्भः शुभस्तत्र निवेशयेत् ॥ ४२५ ॥
विशोष्य सकलं दुग्धं गुटिका यदि तिष्ठति ।
बर्करस्य मुखे पश्चाद्गुटिकां तां प्रयच्छति ॥ ४२६ ॥
प्रविष्टा तन्मुखस्यान्तर्ज्वलमानेव तद्धृदि ।
व्याकुलं कुरुते कामं देहे स्वास्थ्यं न तस्य वै ॥ ४२७ ॥
उदरस्था यदा भूयात्तदाऽसौ म्रियते पशुः ।
स्वकीये वदने पश्चाद्धृत्वा शुभ्रां निरामयाम् ॥ ४२८ ॥
योजनानां शतं गच्छेदनायासेन साधकः ।
स्त्रीणां शतं तथा गच्छेच्छुक्रस्तम्भकरी मता ॥ ४२९ ॥
मुखस्थायामहो तस्यां प्रहारो नैव जायते ।
अन्येऽपि बहवो रोगा मुखस्था दन्तघातिनः ॥ ४३० ॥
जिह्वातालुगता ये ते कण्ठशालूकादयः ।
उपजिह्वा द्विजिह्वा स्यादधिजिह्वा सुदारुणा ॥ ४३१ ॥
सप्तषष्ठिषु ये मध्ये, हृद्रोगाः पीनसादयः ।
तांस्तांश्च नाशयेत्येषा गुटिका नाम खेचरी ॥ ४३२ ॥
इति खेचरीगुटीबन्धः ॥
१. ] आयुर्वेदप्रकाशः । ५५
अथ पारदसेवनविधिं व्याख्यास्यामः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ।
विधिना पथ्यविधानादमरदेहतुल्यदेहः स्यात् ॥ ४३३ ॥
अक्षेत्रीकरणे सति रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः सर्वाङ्गोपक्रुद्भवति ॥ ४३४ ॥
अक्षेत्रीकरणे सूतोऽप्यमृतोऽपि विषं भवेत् ।
फलसिद्धिः कुतस्तस्य सुबीजस्योपरि यथा ॥ ४३५ ॥
कर्तव्यं क्षेत्रकरणं सर्वसिद्धौ रसायने ।
नाक्षेत्रकरणाद्देवि किंचिकुर्याद्रसायनम् ॥ ४३६ ॥
अथ नित्यनाथः—
पञ्चकर्म पुरा कृत्वा पश्चात्सकलदेहिनाम् ।
योजनीयो रसो दिव्यः शीघ्रं सिद्धिमवाप्नुयात् ॥ ४३७ ॥
नवज्वरेऽतिसारे च गर्भिण्यां बालवृद्धयोः ।
न कुर्यात्पञ्चकर्माणि रक्तस्रावं च दाहनम् ॥ ४३८ ॥
पाचनं स्नेहनं स्वेदं वमनं रेचनं तथा ।
एतानि पञ्चकर्माणि ज्ञातव्यानि भिषग्वरैः ॥ ४३९ ॥
अमृतं च विषं प्रोक्तं शिवेन च रसायनम् ।
पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह ।
रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ ४४० ॥
अथान्यच्च ।—
स्निग्धस्विन्नविरिक्तं यन्नीरुजं सिद्धभेषजैः ।
एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम् ॥ ४४१ ॥
स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन, स्विन्नं वस्त्रादिपुटस्वे-
दिना, विरिक्तमिच्छाभेदि नाराचादिसेवनेन, पलाशबीज-
न्तुघ्नगुडमोदकभक्षणेन कीटपातनमपि कर्तव्यं, सिद्धभेषजै-
५६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
नीरुजं संवत्सरमयनं वा परिशीलितैः शृङ्गाराभ्रकलक्ष्मीविला-
साद्यभ्रसत्त्वप्रधानप्रयोगैरिति भावः ॥
उक्तं च ।—
मृताभ्रं भक्षयेन्मासमेकमादौ विचक्षणः ।
पश्चात्तं योजयेद्देहे क्षेत्रीकरणमिच्छतः ॥ ४४२ ॥
इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ ४४३ ॥
घनसत्त्वपादजीर्णोऽर्धकान्तजीर्णश्च तीक्ष्णजीर्णश्च ।
क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोटः ॥ ४४४ ॥
योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च ।
बद्धो रसश्च भुक्तो विधिना सिद्धिप्रदो भवति ॥ ४४५ ॥
अथ रसभक्षणकालः ।
प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके ।
नोल्लङ्घयेत्त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ ४४६ ॥
ताम्बूलान्तर्गते सूते विड्बन्धो नैव जायते ।
सकणाममृतां भुक्त्वा मलबन्धे स्वपेन्निशि ॥ ४४७ ॥
अथ रसमात्राप्रमितिः—
वल्लमेकं नरेऽश्वे तु गद्याणैकं गजे द्वयम् ।
सर्वरोगविनाशार्थं भिषक् सूतं प्रयोजयेत् ॥ ४४८ ॥
मतान्तरम्—
घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाआदिजीर्णस्य ।
सूतस्य गुञ्जवृद्ध्या माषकमात्रं परा मात्रा ॥ ४४९ ॥
शिवः—
गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ।
द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ ४५० ॥
१ 'नैव भोजयेत्' क. ख. ।
२. द्वितीय अध्याय: महारस, उपरस (अभ्रक, माक्षिक, शिलाजतु, गन्धक, हरिताल, मनःशिला)
१.] आयुर्वेदप्रकाशः । ५७
फलम् ।—
तीक्ष्णजीर्णस्य लक्षायुः पलमात्रस्य भक्षणात् ।
एवं दशपलं भुक्त्वा तीक्ष्णजीर्णस्य मानवः ॥ ४५१ ॥
तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ।
भस्मनः शुल्वजीर्णस्य लक्षायुः पलभक्षणात् ॥ ४५२ ॥
कोट्यायुर्ब्रह्म-आयुष्यं वैष्णवं रुद्रजीवितम् ।
द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ ४५३ ॥
अथ हेमजीर्णस्य फलम्—
भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् ।
विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ ४५४ ॥
अस्यानुपानम् ।—
गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निवलावलम् ।
घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं व्रजेत् ॥ ४५५ ॥
एको दोषो हि सूक्ष्मोऽस्ति भक्षिते भस्मसूतके ।
त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ ४५६ ॥
नारीसङ्गादिना देवि अजीर्णं तस्य जायते ।
मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ ४५७ ॥
तस्मादजीर्णशमनोपायमाह—
युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् ।
लघुतां शेफसो ज्ञात्वा पश्चाद्गच्छन् सुखी भवेत् ॥ ४५८ ॥
ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् ।
समाधिकरणं तस्य क्रामणं परमं मतम् ॥ ४५९ ॥
अथ रससेवनकर्तुराहारादिनियममाह—
अतिपानं चात्यशनमतिनिद्राऽतिजागरम् ।
स्त्रीणामतिप्रसङ्गं च आध्मानं च विवर्जयेत् ॥ ४६० ॥
५८ आयुर्वेदीयग्रन्थमाला। [अध्यायः
अतिकोपं चातिहर्षमतिदुःखमतिस्पृहाम् ।
शुष्कवादं जलक्रीडामतिचिन्तां च वर्जयेत् ॥ ४६१ ॥
कूष्माण्डं कर्कटीं चैव कारवेल्लं कलिङ्गकम् ।
कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥ ४६२ ॥
ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥ ४६३ ॥
चतुष्पथे न गन्तव्यं विण्मूत्रं न च लङ्घयेत् ।
वराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥ ४६४ ॥
सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः ।
कुलत्थानतसीतैलं तिलान्माषान्मसूरकान् ॥ ४६५ ॥
कपोतान् काञ्जिकं चैव तक्रभक्तं च वर्जयेत् ।
हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥ ४६६ ॥
कद्रम्लतिक्तलवणं पित्तलं च विवर्जयेत् ।
बदरं नारिकेलं च सहकारं सुवर्चलम् ॥ ४६७ ॥
नारङ्गं काञ्चनारं च शोभाञ्जनमपि त्यजेत् ।
न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ ४६८ ॥
नैवेद्यं नैव भुञ्जीत कर्पूरं वर्जयेत्सदा ।
कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥ ४६९ ॥
न तु हन्यात्कुमारीं च वातलांनि च वर्जयेत् ।
क्षुधार्त्तो नैव तिष्ठेत अजीर्णं नैव कारयेत् ॥ ४७० ॥
दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् ।
हितं दुग्धान्नमुद्गाज्यशाल्यन्नानि सदा ततः ॥ ४७१ ॥
शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् ।
सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् ॥ ४७२ ॥
१ 'मातुलानीं' ग. । मातुलानीं भङ्गाम् ।