आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 66, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ४७
अथानुपानानि—
वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्णं
पित्ते सैलं सितेन्दु व्रणवति तुवरागुग्गुलुश्चारुशुद्धः ।
चातुर्जातेन पुष्टौ हरनयनफला शाल्मलीपुष्पवृन्तं
किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७
अथ गुणाः—
[हाशिये पर हस्तलिखित: ज्वरसेधे] अपहरति रोगवृन्दं दृढयति कायं महद्बलं कुरुते ।
शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ॥ ३५८ ॥
स्मरस्यायुर्नानागदगहनदावानलशिखा
परं वह्नेस्तेजो बलरुचिरतावल्लिमुदिरः ।
अपि प्रौढस्त्रीणामतुलबलहारी निधुवने
रसः सिन्दूराख्यः सकलरसराजो विजयते ॥३५९॥
मुदिरो मेघः ॥
कूष्माण्डं कर्कटी कोलं कलिङ्गं करमर्दकम् ।
करीरं चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ॥
यस्य रोगस्य यो योगस्तेनैव सह योजितः ।
रसेन्द्रो हरते व्याधीन्नरकुञ्जरवाजिनाम् ॥ ३६१ ॥
अथ रसकर्पूरः ।
गैरिकतुवरीखटिकासैन्धवगडजं रजः कुडवम् ।
प्रत्येकं दृढहण्ड्यामाधायास्योपरि रसः स्थाप्यः ॥ ३६२ ॥
कुडवमितोऽथ तदूर्ध्वं देया हण्डी तदास्यायतमुखी ।
अथ तत्सन्धेर्मुद्रां कृत्वा तदधो हुताशनो ज्वाल्यः ॥३६३
अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलैः ।
अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्विनिशम् ॥ ३६४ ॥
तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसंनिभं सूतम् ।
आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥ ३६५ ॥