सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 98, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 98

४. ] आयुर्वेदप्रकाशः । ७९
ऊर्ध्वश्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं
मन्दाग्निं जठरव्यथां विजयते योगैरशेपामयान् ॥ २१ ॥
इति रसवाग्भटात् ॥
अथ शोधनम्—
वज्राभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् ।
सप्तधा भिन्नपत्रं तत्तण्डुलीयाम्लयोर्द्रवैः ॥ २२ ॥
भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ।
मतान्तरम्—
वज्राभ्रकं वह्नितप्तं निक्षिप्तं सप्तसप्तधा ॥ २३ ॥
गोदुग्धे त्रिफलाक्वाथे काञ्जिके सुरभीजले ।
शुद्धिमायाति मलतः प्रक्षिप्तं वा त्रिधा त्रिधा ॥ २४ ॥
रसमञ्जर्याम्—
अथवा बदरीक्वाथे ध्मातमभ्रं विनिक्षिपेत् ।
मर्दितं पाणिना शुष्कं धान्याभ्रादतिरिच्यते ॥ २५ ॥
अथैवं शुद्धस्य धान्ययोगेन सूक्ष्मीकरणं तस्य धान्याभ्रक-
मिति संज्ञा; तत्प्रकारो यथा—
पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले ।
त्रिरात्रं स्थापयेन्नीरे क्लिन्नं वै मर्दयेत्करैः ॥ २६ ॥
तन्नीरे एव यत्नेन यावत्सर्वं स्रवेत्ततः ।
कम्बलाद्गलितं सूक्ष्मं वालुकासदृशं च यत् ।
तद्धान्याभ्रकमित्युक्तं मारणं चाप्यथो भवेत् ॥ २७ ॥
अत्र नीरं तु काञ्जिकमेव; यत उक्तं वार्तिककृता—
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्यत्तद्धान्याभ्रमिति कथ्यते ॥ २८ ॥