आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 97, कुल 232 में से
संदर्भ में पढ़ें७८ आयुर्वेदौयग्रन्थमाला। [अध्यायः
अथ वज्राभ्रकगुणाः—
अभ्रं कषायं मधुरं सुशीतमायुःकरं धातुविवर्धनं च ।
हन्त्यात्रिदोषव्रणमेहकुष्ठप्लीहोदरग्रन्थिविषकृमींश्च ॥ १४ ॥
रोगान् हन्ति दृढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव ।
दीर्घायुष्यान् जनयति सुतान् विक्रमैः सिंहतुल्या-
न्मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम् ॥ १५ ॥
अथाशुद्धस्य मारणे दोषमाह—
पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोफम् ।
हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं हि तद्दुर्द्धरं वह्निहृत्स्यात्॥१६॥
अथ मृताभ्रस्यापि लक्षणगुणदोषानाह—
निश्चन्द्रकं सुसूक्ष्मं च लोचनाञ्जनसंनिभम् ।
तदा तु मृतमित्युक्तमभ्रकं नान्यथा मृतम् ॥ १७ ॥
अन्यच्च—
मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् ।
सचन्द्रं विषवद्वर्ज्यं मृत्युकृद्व्याघ्ररोमवत् ॥ १८ ॥
व्याघ्रश्मश्रुरोम यद्वन्मारयति तद्वदित्यर्थः ॥
अस्य मारणे पुटसंख्यामाह—
शतादिस्तु सहस्रान्तः पुटो देयो रसायने ।
दशादिस्तु शतान्तः स्याद्व्याधिनाशनकर्मणि ॥ १९ ॥
सहस्रपुटपक्षे तु भावना पुटनं भवेत् ।
मर्दनं तु तथा न स्यादिति प्राचां हि संमतम् ॥ २० ॥
अथास्यानुपानं मात्राप्रमितिश्च—
वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं
दिव्याभ्रं क्षयपाण्डुरुग्ग्रहशिकाशूलं च कुष्ठामयम् ।
१ 'तज्जाठरवह्निहृत्' ग ।