आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 95, कुल 232 में से
संदर्भ में पढ़ें७६ आयुर्वेदीयग्रन्थमाला । [अध्यायः
तस्मिन् मनःशिलाचूर्णं पारदाद्दशमांशकम् ।
क्षित्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥ १० ॥
ततस्तु खण्डशः कृत्वा काचकूप्यां निरुध्य च ।
वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥ ११ ॥
सर्वतोऽङ्गुलमानेन छायाशुष्कां च कारयेत् ।
वालुकायन्त्रगर्भे तु दिनं मृद्वग्निना पचेत् ॥ १२ ॥
क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् ।
सप्ताहात् समुद्धृत्य हिङ्गुलः स्यान्मनोहरः ॥ १३ ॥
अन्यच्च—
उर्ध्वपातनयुक्त्या तु डमरूयन्त्रपाचितम् ।
हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् ॥ १४ ॥
निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम् ।
घृष्ट्वा दरदमूर्ध्वं तु पातयेत्सूतयुक्तिवत् ॥ १५ ॥
तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्रसमुत्तमम् ।
शुद्धमेव हि तत्सूतं सर्वकर्मसु योजयेत् ॥ १६ ॥
हिङ्गुलस्य शोधनमेव दृष्टं रसग्रन्थेषु नान्यत् क्रियान्तर-
मिति दिक् ॥
इति श्रीसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचितायुर्वेदप्रकाशे
तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ।
अथाभ्रकीयमध्यायं व्याख्यास्यामः ।
पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् ।
विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ १ ॥
ते निपेतुर्घनध्वानाः शिखरेषु महीभृताम् ।
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥ २ ॥