आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 94, कुल 232 में से
संदर्भ में पढ़ें३.] आयुर्वेदप्रकाशः । ७५
गुणाः—
तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि ।
हृल्लासकुष्ठज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति ॥ ४ ॥
अथाशुद्धदरदस्य दोषाः—
अशुद्धो दरदः कुर्यादान्ध्यं क्षैण्यं क्लमं भ्रमम् ।
मोहं मेहं च संशोध्यस्तस्माद्वैद्यैस्तु हिङ्गुलः ॥ ५ ॥
अथ हिङ्गुलशोधनम् ।—
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ ६ ॥
वाग्भटः—
सप्तकृत्वोऽऽर्द्रकद्रावैर्लकुचस्याम्बुनाऽपि वा ।
शोषितो भावयित्वा च निर्दोषो जायते खलु ॥ ७ ॥
अथ मारणम्—हिङ्गुलं तनुवस्त्रकञ्चुकगतं कृत्वा पटराङ्ग-
नकन्दमध्यस्थं कृत्वा मृदा संवेष्ट्य पुटपाकविधानेन दशव-
नोपलैः पुटेत्, एवं शतपुटानि; ततः शतपुटान्येवं वनवृन्ता-
कस्य, ततः शतपुटान्येवं मन्दारफलस्य, ततः शतपुटान्येवमि-
न्द्रवारुणिकाफलस्य, ततः शतपुटान्येवमम्लवेतसफलस्य, ततः
सिद्धो जातश्चात्यरुणवर्णो भवति । रक्तिकैकामस्य पर्णखण्डेन
त्रिगन्धादिसुगन्धिद्रव्यैर्यथालाभं भक्षयेत् । द्विगुणाग्निर्द्विगुण-
कामः कासश्वासक्षयज्वरादिनाशश्च ॥
तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् ।
मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निवर्धनम् ॥ ८ ॥
अथ हिङ्गुलोत्पत्तिः; सा च रसपद्धत्युक्ता लिख्यते—
अशुद्धपारदं भागं चतुर्भागं च गन्धकम् ।
उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ ९ ॥
१ 'तनुवस्त्रकन्दुकं' ख. । २ 'नवभागं' ख. ।