सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 108, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 108

५. ] आयुर्वेदप्रकाशः । ८९
फिरङ्गदेशजं जन्तोर्हन्ति रोगं सुदुस्तरम् ।
विसर्पमण्डलं कण्डूं पामां विस्फोटकं तथा ॥ १६ ॥
वातरक्तकृतान् रोगानन्यानपि विनाशयेत् ।
एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ॥ १७ ॥
तथा कटुरसं वह्निमातपं दूरतस्त्यजेत् ।
लवणं यः परित्यक्तुं न शक्नोति कथंचन ।
स तु सैन्धवमश्नीयान्मधुरोपरसो हि सः ॥ १८ ॥
इति भावप्रकाशीयं हरितालभस्म बहुभिर्बहुशोऽनुभूतमस्ति ।
अथ लघुयोगतरङ्गिण्याम्—
जम्बीरद्रवमध्ये तु प्रक्षाल्य नतमण्डनम् ।
दशांशं टङ्कणं दत्त्वा खण्डशः परिमेलयेत् ॥ १९ ॥
चतुर्गुणे गाढपट्टे निबध्य प्रहरद्वयम् ।
दोलायन्त्रेण संस्वेद्य प्रदीपप्रतिमेऽनले ॥ २० ॥
चूर्णतोये काञ्जिके च कूष्माण्डाम्बुनि तैलके ।
त्रिफलाम्बुनि तत्पश्चात्क्षालयित्वाऽम्लवारिणा ॥ २१ ॥
ततः पलाशमूलत्वग्वारिपिष्टं प्रशोषयेत् ।
महिषीमूत्रसंपिष्टं पुनस्तं परिशोषयेत् ॥ २२ ॥
तं गोलकं शरावाभ्यां संपुटीकृत्य यत्नतः ।
खाते गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ।
अजादुग्धैः पुनः पिष्ट्वा शोषयेद्गोलकीकृतम् ॥ २३ ॥
आकण्ठं भस्म पालाशं हण्डिकायां विनिक्षिपेत् ।
सम्यक् चूर्णस्य कुडवं दत्त्वा तत्र विचक्षणः ॥ २४ ॥
स्थापयेद्गोलकं तत्र पुनश्चूर्णं च भस्म च ।
यथा धूमो बहिर्याति न तथा तां विमुद्रयेत् ॥ २५ ॥
द्वात्रिंशत्प्रहरानग्निं चूल्यां भक्तवदर्पयेत् ।
स्वाङ्गशीतं समुद्धृत्य संचूर्ण्य नतमण्डनम् ॥ २६ ॥