सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 106, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 106

५.] आयुर्वेदप्रकाशः । ८७
मृत्युकल्पं महाव्याधिं वातपित्तकफोद्भवम् ।
हन्त्यष्टादशकुष्ठानि नृणां पथ्याशिनां ध्रुवम् ॥ ७८ ॥
इत्यभ्रककल्पः ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे चतुर्थोऽध्यायः ॥ ४ ॥
अथ पञ्चमोऽध्यायः ।
अथ हरितालस्य नामलक्षणगुणशोधनमारणाध्यायः ।
हरितालं तु तालं स्यादालं तालकमित्यपि ।
हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ॥ १ ॥
तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् ।
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ॥ २ ॥
पत्राख्यं तालकं विद्याद्गुणाढ्यं तद्रसायनम् ।
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा लघु ।
स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम् ॥ ३ ॥
तालकगुणाः—
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।
कण्डूकुष्ठादिरोगास्रकफपित्तकचव्रणान् ॥ ४ ॥
अथाशुद्धस्यासम्यग्मारितस्य च दोषानाह—
हरति च हरितालं चारुतां देहजातां
सृजति च बहुतापानङ्गसंकोचपीडाः ।
वितरति कफवातौ कुष्ठरोगं विदध्या-
दिदमशितमशुद्धं मारितं वाऽप्यसम्यक् ॥ ५ ॥
शोधितं हरितालं तु कान्तिवीर्यविवर्धनम् ।
कुष्ठादिपापरोगघ्नं जरामृत्युहरं परम् ॥ ६ ॥
अशुद्धतालमायुघ्नं कफमारुतमेहकृत् ।
तापस्फोटाङ्गसंकोचान् कुरुतेऽतो विशोधयेत् ॥ ७ ॥