आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 105, कुल 232 में से
संदर्भ में पढ़ें८६ आयुर्वेदीयग्रन्थमाला । [अध्यायः
पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।
कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ ६८ ॥
इति मुक्तादिरत्नद्रुतयः ॥
अगस्त्यपुष्पनिर्य्यासैर्मर्दितं सूरणोदरे ।
गोष्ठभूस्थं घनं मासं जायते जलसंनिभम् ॥ ६९ ॥
इत्यपि धान्याभ्रकद्रुतिः । द्रुतीनां प्रयोजनं तु रसेन्द्रे
जारणार्थमुपयुज्यन्त इति ज्ञेयम् ।
अथाभ्रकस्य महाप्रयोगानाह—
लक्ष्मीविलासाभ्रं तु शृङ्गाराभ्रकमेव च ।
सम्यग्झारितमित्यादि नित्यनाथोदिताभ्रकम् ॥ ७० ॥
एते महाप्रयोगाश्च वीर्य्यस्तम्भाधिकारके ।
लिखितास्ते मया नेह पुनरुक्त्या प्रकीर्तिताः ॥ ७१ ॥
अन्यच्च—
निश्चन्द्रमभ्रकं भस्म धात्रीव्योषविडङ्गकम् ।
भृङ्गाम्बुना जलैर्वाऽपि खल्वे मर्द्य द्वियामकम् ॥ ७२ ॥
गुटिकां कारयेत्सर्वां छायाशुष्कां सुरक्षयेत् ।
एकैकां भक्षयेत्प्राज्ञो वर्षमेकं निरन्तरम् ॥ ७३ ॥
द्वितीये तु पुनर्वर्षे भक्षयेद्गुटिकाद्वयम् ।
एवं संवत्सरेणैव गुटिकैकां विवर्धयेत् ॥ ७४ ॥
त्रिवर्षस्य प्रयोगोऽयमभ्रकस्य प्रकीर्तितः ।
अनेन क्रमयोगेन व्योम्नः शतपलं नरः ॥ ७५ ॥
अद्याद्भवेन्न संदेहो वज्रकायो महाबलः ।
मासत्रयेण रक्ताख्यं क्षयं श्वासं सुदारुणम् ॥ ७६ ॥
पञ्चकासांश्च हृच्छूलं ग्रहण्यर्शोगदांस्तथा ।
आमवातं तथा शोषं पाण्डुरोगं सुदारुणम् ॥ ७७ ॥
CCO, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri