आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 103, कुल 232 में से
संदर्भ में पढ़ें८४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथास्य सत्त्वस्य शोधनमारणमाह—
अयोवच्छोधनं तस्य मारणं तद्वदेव तु ।
यद्वा—मारितं ताम्रवद्गन्धपारदाभ्यां निषेचयेत् ॥ ५३ ॥
पिण्डीकृतं तु बहुधेत्यस्य व्याख्या—तिन्दुकप्रमाणान्
बहुपिण्डान् गोलकान् कृत्वेत्यर्थः । कोष्ठगतमिति व्याख्या—
अधःपातनकोष्ठां स्थापितम् । मारणं तद्वदेव तु व्याख्या—
त्रिफलादिभिर्लोहवद्भावयित्वा विंशतिवारं षष्टिवारं शतवारं
वा पुटयित्वा सत्त्वभस्म संपाद्यं भक्षणार्थं, रसे जारणार्थं तु
शोधयित्वा जार्यम् ॥
अथास्य गुणाः—
सत्त्वमभ्रस्य शिशिरं त्रिदोषघ्नं रसायनम् ।
विशेषात्पुंस्त्वजननं वयसः स्तम्भनं परम् ॥ ५४ ॥
नानेन सदृशं किंचिद्भैषज्यं पुंस्त्वकृत्परम् ।
सत्त्वसेवी वयःस्तम्भं लभते नात्र संशयः ॥ ५५ ॥
अथान्यच्च—
सर्वेषामुपपूर्वाणां रसानां सत्त्वमारणम् ।
कर्तव्यं भस्मसूतेन गन्धकेनाग्निगर्भके ॥ ५६ ॥
यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् ।
कर्तव्यं षड्गुणाधिक्याद्रसज्ञत्वमभीप्सता ॥ ५७ ॥
अथ सामान्यतः सर्वेषां सत्त्वपातनमुच्यते—
गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा ।
ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥ ५८ ॥
सत्त्वपातनद्रव्येण संयुक्तं खल्वमध्यके ।
एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डकाः ॥ ५९ ॥
कृत्वा ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति निश्चितम् ।