आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 102, कुल 232 में से
संदर्भ में पढ़ें४.] आयुर्वेदप्रकाशः । ८३
अथान्यत्रापि—
वराम्बु गोघृतं चाभ्रं कलापङ्दिक्समांशकम् ।
मृद्वग्निना पचेल्लौह्याममृतीकरणं त्विदम् ॥ ४६ ॥
गोघृतेनैवामृतीकरणमुक्तं; तद्यथा—
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ॥
घृते जीर्णे ततश्चूर्णं सर्वकार्येषु योजयेत् ॥ ४७ ॥
इत्यमृतीकरणम् ॥
अथाभ्रकसेविनां वर्ज्यपदार्थानि कथ्यन्ते—
क्षाराम्लविदलं कोलं कर्कटी कारवेल्लकम् ।
वृन्ताकं च करीरं च तैलं चाभ्रे विवर्जयेत् ॥ ४८ ॥
अथाभ्रकसत्त्वनिष्कासनविधिः कथ्यते ।—
चूर्णीकृतं गगनपत्रमथारनाले
धृत्वा दिनैकमवशोष्य च सूरणस्य ।
भाव्यं रसैस्तदनु मूलरसैः कदल्याः
पादांशटङ्कणयुतं शफरैः समेतम् ॥ ४९ ॥
पिण्डीकृतं तु बहुधा महिषीमलेन
संशोष्य कोष्ठगतमाशु धमेद्दृढाग्नौ ।
सत्त्वं पतत्यतिरसायनजारणार्थं
योग्यं भवेत्सकललोहगुणाधिकं च ॥ ५० ॥
एवं पतिते सत्त्वे ततः किं कार्यं तदाह—
कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् ।
मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥ ५१ ॥
घृतमधुगुग्गुलुगुञ्जाटङ्कणमेत्तत्तु मित्रपञ्चकं नाम ।
मेलयति सप्तधातूनङ्गाराग्नौ तु धमनेन ॥ ५२ ॥