सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 252, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 252

उपसंहारः
( १ )
वेदेन्दुखाक्षिमित ( २०१४ ) विक्रमवत्सरान्ते,
मासे तपस्यतिशुभे विमले दले च ।
मारे तिथौ विबुधमोदकृते प्रयत्नाद्
व्याख्यामिमामिह विधातुमहं प्रवृत्तः ॥
( २ )
व्याख्योपयोगिशुभसाधनमन्तरापि,
सा पूर्णतामुपगताऽचिरकाल एव ।
सन्तोषकृद् यदि भवेत् सुधियां तदेव,
स्यादेष धीधनविहीनजनः कृतार्थः ॥
( ३ )
नवानीनामविख्यातो ग्रामः कश्चित्मदाश्रयः ।
वर्तते मिथिलाभूमौ विद्वद्वन्द्वविराजितः ॥
( ४ )
तत्र मैथिल-भूदेव-तदन्वयसमुद्भवः ।
व्रजमोहनामास्ति विदुषामाश्रयो बुधः ॥
( ५ )
वैद्यकेन दृढः कायः काव्येन सरसं मनः ।
पूता वाक् शब्दशास्त्रेण यस्य सम्यग् विराजते ॥
( ६ )
तस्यैव प्रथमायास-परिणामोऽयमेधते ।
विद्वांसोऽत्र मतिं कुर्युहँसवंशावतंसवत् ॥
इति दरभंगामण्डलान्तर्गत 'नवानी'ग्रामवास्तव्यमैथिलब्राह्मण-
वंशावतंस-व्याकरणसाहित्यायुर्वेदाचार्याचार्य श्रीमोहन-
झाशास्त्रिणा कृता 'औचित्यविचारचर्चा: 'प्रभा'
नामिका संस्कृत-हिन्दीव्याख्या समाप्ता ।
●
समाप्तश्चायं ग्रन्थः
●