औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 230, कुल 256 में से
संदर्भ में पढ़ें१७० औचित्यविचारचर्चा
क्षमावस्थाप्राप्तिगर्भेण सुन्दरेण, अभिमानेन गर्वेण लटभायाः१ कमनीय-
कन्यायाः, भावे कामव्यञ्जकचेष्टादौ, भरोऽतिशयः पूर्णता वा, निबद्धः
आविष्कृतः सम्पादितो वा ।
अवस्थौचित्य का उदाहरण दिखाया जा रहा है—यथा ममेति । मुक्त इति ।
बाला अब युवती बनने जा रही है, इसलिये इसने गेंद खेलना छोड़ दिया है,
बाल्योचित चञ्चलता का त्याग कर दिया है, मुग्धता का कहीं पता तक नहीं
रहा, हथिनी के समान मस्तानी चाल से चलना सीख गयी है, कटाक्ष-निःक्षेपण
का अभ्यास कर रही है, तथा परिहास को तरंगित करने में वैदग्ध्यपूर्ण वचन-
विन्यास आरंभ कर दिया है इससे ज्ञात होता है कि संभोगक्षम वयस् प्राप्त हो
जाने के कारण स्वाभाविक सुन्दर गर्व से लटभाभाव (सुन्दरकन्योचित काम-
व्यञ्जक चेष्टा) में पूर्णता प्राप्त कर ली है ।
अत्र यदुक्तं-कन्दुकक्रीडा त्यक्ता, बालचापल्यं परिहृतम्, मौग्ध्यं
निरस्तम्, गजगतिरङ्गीकृता, भ्रूलतालास्याभ्यासः क्रियते, नर्मोर्मिषु
वचनवैचित्र्यमासूत्रितम्, तेन जानीमहे शैशवावस्थां समुत्सृजन्त्या प्रौढता-
मनारूढयापि नवसम्भोगगौरवगर्भेण सुभगाभिमानेन लटभाभावे बाल्या
भरो निबद्धः, इत्यभिहिते स्फुटधिया वयोवस्थामध्यसन्धिवर्णनायामौ-
चित्यं स्फुरदिवावभासते ।
अस्मिन्पद्ये यदुक्तं—कन्दुकक्रीडा त्यक्ता, बालोचितचाञ्चल्यमुज्झि-
१—अयं शब्दः प्रायो देशोद्भवस्तेन कोषादिषु नोपलभ्यते, शब्दकल्प-
द्रुमोऽप्येतद्विषये मूक एव (१) गाथासप्तशत्याः प्रथमशतकस्य सप्तमपद्ये
"लढह" इति प्राकृतं रूपमुपलभ्यते, तस्य च च्छायायां विदग्धेत्यर्थो विहितो-
ऽस्ति । (२) वक्रोक्तिजीवितस्य १६ तमे पृष्ठे "नूतनतारुण्यतरङ्गितलावण्यलट-
भकान्तेः" इत्यत्राचार्यविश्वेश्वरेण लटभेत्यस्य सुन्दरोऽर्थः कृतोऽस्ति । तत्प्रमाणे
च तत्रैव टिप्पण्याम् (i) "लटभललनाभोगसुलभः" (ii) "तस्याः
पादनखश्रेणिः शोभते लटभभ्रुवः" (iii) "न कस्य लोभं लटभा तनोति" (iv)
"केशबन्धविभवैर्लटभानाम्' इति पद्यांशचतुष्टयमुद्धृतम् । (३) "Monier
Williams" नाम्नाः अंग्रेजी-संस्कृतकोशस्य ८९५ तमे पृष्ठे औचित्यविचार-
चर्चाया एवोद्धरणमुपस्थाप्य कन्येत्यर्थः कृतोऽस्ति । (४) लट बाल्ये (भ्वा०
धा० सं० २९८) इति धातोर्निष्पत्तिमुद्भाव्य व्युत्पत्तिमर्यादया कन्यापर्यायपक्ष एव
ममापि हृदयसंवादीति प्रस्तुतपद्यव्याख्यानावसरे कन्यार्थ एव मया कृतः ॥