आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 70, कुल 292 में से
संदर्भ में पढ़ें२० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
वेत्त्रानुवर्तते । गोष्ठं गोस्थानम् । ततश्चेदाहृतं पिण्डं गृह्णीयात्
पशुमत्यस्याः प्रजा भविष्यतीति विद्यात् । एवमुत्तरेष्वपि
द्रष्टव्यम् ॥ १४ ॥
वेदिपुरीषाद् ब्रह्मवर्चस्विनी ॥ १५ ॥
वेदिगताः पांसवो वेदिपुरीषम् । वृत्तस्वाध्यायकृतं
यशो ब्रह्मवर्चसम् ॥ १५ ॥
अविदाासिनो ह्रदात् सर्वसम्पन्ना ॥ १६ ॥
अविदासी अशोष्यः । दसिरुपक्षये ॥ १६ ॥
देवनात् कितवी ॥ १७ ॥
देवनं द्यूतस्थानम् । कितवी द्यूतपरा ॥ १७ ॥
चतुष्पथाद् विप्रव्राजिनी ॥ १८ ॥
चतुर्णां पथां समाहारश्चतुष्पथम् । विविधं या प्रव्रज-
ति सा विप्रव्राजिनी, स्वकुले न तिष्ठतीत्यर्थः ॥ १८ ॥
इरिणादधन्या ॥ १९ ॥
ऊषरप्रदेश इरिणं, यत्र धान्यं न प्ररोहति । अधन्या
धनरहिता ॥ १९ ॥
श्मशानात् पतिघ्नी ॥ २० ॥
तस्याः प्रजा पतिघ्नीत्येके । स्वयमित्यन्ये ॥ २० ॥
अलङ्कृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो वि-
वाहः ॥ २१ ॥
अथ ब्राह्मादयोऽष्टौ विवाहाः । तत्राद्यौ ब्राह्मणानामेव
भवतः प्रतिग्रहात्विज्यसंयोगात् । गान्धर्वः क्षत्रियस्य पुराणेषु
दर्शनात् , तथा राक्षसो युद्धसंयोगात् । आसुरो वैश्यस्य