सामग्री पर जाएँ
सर्वकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 67, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 67

चतुर्थः खण्डः] अनाविलोपेताम् । १७

तेषामित्यनन्तरस्यै विवाहस्यैव सम्बन्धो मा भूदिति ।
ज्ञापकात् सिद्धम् । यदयं “विवाहे चतुर्थीम्”त्युत्तरत्र विवा-
हग्रहणं करोति तज्ज्ञापयति इह सर्वेषां सम्बन्ध इति ।
तर्हि विस्पष्टार्थं तेषांग्रहणम् । चतसृग्रहणमनर्थकं चतसृणा-
मेवोपदेशात् । नियमार्थं तु, चतस्र एव तेषामाहुतय इति ।
तेनाज्यभागौ पक्षेऽपि न भवतः । स्विष्टकृत्तु भवति पुरस्ताद्-
ग्रहणात् , पुरस्ताच्चतस्र एवेति नियमात् । यत्र होम उपदि-
श्यते न द्रव्यं तत्राज्यमेव प्राप्तं दर्शयति — “आज्यशेषेण
वानक्ति हृदये” इति । स्पष्टं चैतत् कल्पान्तरे “जुहोतीति
चोद्यमाने सर्पिराज्यं प्रतीयाद्”ति । एवमिहापि सिद्धे आज्य-
ग्रहणमाज्यहोमा एव ते कथं स्युरिति । तेन विवाहे लाजेषु
सत्स्वपि “कृताकृतमाज्यहोमेषु परिस्तरणम्” इत्येतद् भवति ॥

अग्न आयूंषि पवस इति तिसृभिः प्रजापते न
त्वदेतान्यन्य इति च व्याहृतिभिर्वा ॥ ४ ॥

अस्मिञ्छास्त्रे व्याहृतिग्रहणे चतस्र एव गृह्यन्ते परि-
भाषितत्वात् । व्याहृतिश्च भूः स्वाहा भुवः स्वाहा सुवः स्वाहा
भूर्भुवःसुवः स्वाहेति । तत्र भूः स्वाहेत्यादिषु स्वरूपेण पठ्य-
मानेष्वपि व्याहृतिभिश्चेति वचनमेतदर्थमेव कृतम् ॥ ४ ॥

समुच्चयमेके ॥ ५ ॥

एके आचार्याः पूर्वोक्तानामष्टानामाहुतीनां समुच्चयं-
मिच्छन्ति ॥ ५ ॥


१. 'स्यैव वि' क. पाठः. २. 'स्य स', ३. 'ते तत्र सर्वदाज्य' ख. पाठः.

D