आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 58, कुल 292 में से
संदर्भ में पढ़ें८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
हेति वचनमुत्तरार्थम् । स्वाहेत्यथ बलिहरणमिति अहो-
मैत्वाद्धि न प्राप्नोति ॥ १ ॥
अथ बलिहरणमेताभ्यश्चैव देवताभ्योऽद्भ्य ओ-
षधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्य
इन्द्राय इन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय
वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशं
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये विश्वेभ्यो देवेभ्यः स-
र्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा । नक्तंचारि-
भ्य इति नक्तम् । रक्षोभ्य इत्युत्तरतः ॥ २ ॥
एताभ्यश्चैवेति । याः पूर्वोक्ता देवताः ताभ्यश्च याश्च
वक्ष्यन्ते अबाद्यो वास्तुदेवतान्तास्ताभ्यश्च पञ्चदशभ्यः ।
प्रागपवर्गम् । एवकारः पौनर्वचनिकः, याभ्यो होमस्ताभ्य एव
बलिरपि । गृहदेवताभ्य इति नायं विधायकः, गृहे या देवता
वास्तुविद्याप्रसिद्धाः ताभ्यो बलिरिति, वास्तुदेवताभ्य इति
पृथग्वचनात् । तस्मान्मन्त्रोऽयम् । प्रतिदिशमिति प्रधान-
दिशां चतसृणां ग्रहणम्, इन्द्रादीनां चतुर्णामुपदेशात् । पुरु-
षास्तु तेन तेन समानदिशः । कस्य पुनः प्रतिदिशम् । पूर्वकृ-
तानां बलीनामिति केचित् । यत्रकुत्रचिदित्यपरे । गृहस्यै
प्रतिदिशमित्यन्ये । मध्य इति, दिग्देवतानां गृहस्य वा । वि-
श्वेभ्यो देवेभ्य इत्येतदपि मध्य एव । नक्तंचारिभ्य इति नक्तं
दिवाचारिभ्य इत्यस्य स्थाने । पूर्वत्र दिवाग्रहणं न कर्तव्यम्
इह नक्तं विशेषविधानादेव पूर्वो विधिर्दिवा भविष्यति । तत्
१. 'मस्थत्वा' क. पाठः. २. 'स्येत्यन्ये' ख. पाठः.