सामग्री पर जाएँ
सर्वकोश
अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

पृष्ठ 15, कुल 102 में से

संदर्भ में पढ़ें
पृष्ठ 15

तृतीयाध्याये प्रथमः पादः १५
६७ न गोपवनादिभ्यः।
६८ तिककितवादिभ्यो द्वन्द्वे।
६९ उपकादिभ्योऽन्यतरस्याम्-
द्वन्द्वे।
७० आगस्त्यकौण्डिन्ययोरगस्ति-
कुण्डिनच्।
७१ सुपो धातुप्रातिपदिकयोः।
७२ अदिप्रभृतिभ्यः शपः।
७३ बहुलं छन्दसि।
७४ यङोऽचि च।
७५ जुहोत्यादिभ्यः श्लुः।
७६ बहुलं छन्दसि।
७७ गातिस्थाघुपाभूभ्यः सिचः
परस्मैपदेषु।
७८ विभाषा घ्राधेट्शाच्छासः।
७९ तनादिभ्यस्तथासोः।
८० मन्त्रे घसह्रणश्वृदहाद्वृच्क-
गमिजनिभ्यो लेः।
८१ आमः।
८२ अव्ययादाप्सुपः।
८३ नाव्ययीभावादतोऽम्त्व-
पञ्चम्याः।
८४ तृतीयासप्तम्योर्बहुलम्।
८५ लुटः प्रथमस्य डारौरसः।
तृतीयोऽध्यायः
प्रथमः पादः
१ प्रत्ययः।
२ परश्च।
३ आद्युदात्तश्च।
४ अनुदात्तौ सुप्पितौ।
५ गुप्तिज्किद्भ्यः सन्।
६ मान्बधदान्शान्भ्यो
दीर्घश्चाभ्यासस्य।
७ धातोः कर्मणः समान-
कर्तृकादिच्छायां वा।
८ सुप आत्मनः क्यच्।
९ काम्यच्च।
१० उपमानादाचारे।
११ कर्तुः क्यङ् सलोपश्च।
१२ भृशादिभ्यो भुव्यच्वेर्लोपश्च
हलः।
१३ लोहितादिडाग्भ्यः क्यष्।
१४ कष्टाय क्रमणे।
१५ कर्मणो रोमन्थतपोभ्यां
वर्तिचरोः।
१६ बाष्पोष्मभ्यामुद्वमने।
१७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः
करणे।
१८ सुखादिभ्यः कर्तृ वेदनायाम्।