आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 70, कुल 134 में से
संदर्भ में पढ़ें३४ गीतिकापादः ॥
ग्रासोने द्वे वृत्ते ग्रासगुणे भाजयेत्पृथक्त्वेन ।
ग्रासोनयोगभक्ते संपातशरौ परस्परतः ॥ १८ ॥ *
अन्योऽन्यान्तर्गतयोर्वृत्तपरिधिभागयोर्मध्यगतमन्तरालं ग्रास इत्युच्यते ।
तेन ग्रासेन हीनं वृत्तद्वयम् । पृथक्त्वेन पृथगित्यर्थः । पृथग्ग्रासमानेन गुणितं
कृत्वा पृथग्भाजयेत् । तत्रोक्तं हारमनुवादरूपेण प्रदर्शयन्फलं वदति ग्रासो-
नयोगभक्ते संपातशराविति । तत्र ग्रासोनयोर्वृत्तयोर्योगेन भक्ते राशिद्वये सति
लब्धौ संपातशरौ भवतः । परिधियोगद्वयगतसमस्तजीवाया मध्य उभयपार्श्व-
गतौ शरावित्यर्थः । परस्परतः । अल्पवृत्ताल्लब्धोऽधिकवृत्तशरः । अधिकवृत्ता-
ल्लब्धोऽल्पवृत्तशर इत्यर्थः । उदाहरणम् ।
« चत्वारिंशन्मितं वृत्तमन्यत्षोडशसम्मितम् ।
ग्रहभागस्तुसंस्थस्तयोर्याच्यौ शरौ पृथक् » ॥
वृत्तमेकम् ४० । अन्यत् १६ । ग्रासः ४ लब्धो लघुवृत्तशरः ३ । बृहद्वृत्तशरः १ ॥
श्रेडीफलानयनमाह ।
भा०:—वृत्त और परिधि भाग के अन्तर्गत स्थान को “ ग्रास ” कहते हैं।
उस ग्रास से हीन, दोनों वृत्तों को अलग ग्रास-मान से गुणा कर पृथक् भाग
देवे । ग्रासोन एवं वृत्त योग द्वारा भाग देने पर दो सम्पात शर होंगे । छोटा
वृत्त हो तो अधिक वृत्तशर होगा एवं बड़ा वृत्त हो, तो अल्प वृत्तशर होगा ।
उदाहरण जैसे—दो वृत्तों का मान ४० और ग्रास १६, और दोनों वृत्त का
ग्रासोन ३६ । १२ ग्रास गुण ३६ × ४=१४४, १२ × ४=४८ १४४/४८=३ ४८/४८=१ ॥ १८ ॥
इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखमध्यम् ।
इष्टगुणितमिष्टधनं त्वथवाद्यन्तं पदार्धहतम् ॥१९॥
बहुसूत्रार्थप्रदर्शकमेतत्सूत्रम् । अतो बहुधा योजना कार्या । तत्र म-
ध्यफलसर्वफलानयने सपूर्वमित्येतदुपनीय योज्यम् । इष्टपदमेकहीनं दलि-
तमुत्तरेण च वाख्येन गुणितं मुखेनादिधनेन युतं मध्यधनं भवति । तन्म-
ध्यधनमिष्टपदगुणितं सर्वधनं भवति । अत्रेदं सूत्रम् । इष्टं व्येकं दलितं
चयगुणितं मुखयुतञ्च मध्यधनम् । इष्टपदेन विनिघ्नं मध्यधनं भवति सर्वधनम् ।
- प्रकाशिकायां ग्रासोनयोगलब्धौ । इति पाठः । आचार्येण तु ०भक्ते-
स्सम्पात० इति लिखितं स्यात् ।