आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 63, कुल 134 में से
संदर्भ में पढ़ेंसमस्तज्ये च ते गोलपादस्याद्यन्तभागयोः ॥
दीर्घाल्पयोस्तु यो भेदो बाह्वोः कोट्योस्तथाच यः ।
तद्वर्गैक्यपदं मध्यभागस्य ज्या समस्तज्या ॥
समस्तज्यात्रयस्यात्र साम्यात् खण्डत्रयं समम् ।
व्यासार्धार्धमिता तस्मादेकैकश्रोत्येति निश्चितम्॥
इति ॥ जीवापरिकल्पनायां युक्तिप्रकारं दर्शयति ।
भा०:--दो अयुत (२०००) परिमित व्यास की आसन्न परिधि का परिमाण
६२८३२ है। अर्थात् १: ३. १४१६ ये गुणोत्तर हुए। इसी प्रकार त्रैराशिक द्वारा, इससे
न्यूनाधिक परिमिति व्यास के आसन्न परिधि का परिमाण समझना चाहिये॥१०॥
समवृत्तपरिधिपादं छिन्द्यात्त्रिभुजाच्चतुर्भुजाच्चैव ।
समाचापज्यार्धानि तु विष्कम्भार्धे यथेष्टानि ॥ ११ ॥
समवृत्तस्य परिधिपादं छिन्द्यात् । युक्तिपरिकल्पिताभी रेखाभिश्च्छिन्द्या-
दित्यर्थः । तत्र जातात्त्रिभुजात्क्षेत्रात्कानिचिञ्ज्यार्धानि सिध्यन्ति । त्रिभुजस्याश्र-
वशात्सिध्यन्तीत्यर्थः । अन्यानि तत्र जाताच्चतुर्भुजात्क्षेत्रात्सिध्यन्ति । चतुर्भुजा-
श्रवशात्सिध्यन्तीत्यर्थः ॥ समचापज्यार्धानि । परस्परं समानामर्धचापानां ज्या-
धानीत्यर्थः । विष्कम्भार्धे सिद्धे सत्यन्यानि सिध्यन्तीत्यर्थः । यथेष्टानि । गीति-
कासूक्तानां चतुर्विंशत्यर्धजीवानान्मध्ये यानीष्टानि तानि सिध्यन्ति । सर्वाणि
सिध्यन्तीत्यर्थः । एवं पिण्डज्यार्धानि सिध्यन्ति । तानि पूर्वपूर्वहीनानि मख्या-
दीनि भवन्ति । अत्रोच्यते ॥
वृत्तैँशो धनुराकारस्समस्तधनुरुच्यते ।
तस्याग्रद्वयगा जीवा समस्तज्या च तस्य तु ॥
तस्या अर्धमिहार्धज्या तच्चापार्थश्च तद्धनुः ।
दोःकोटिजीवे त्वर्धज्ये सदा तद्धनुषी तथा ॥
गतगन्तव्यभागौ हि दोःकोटी वृत्तपादके ।
तज्ज्ये दिक्सूत्रयुग्मान्ते चेष्टवृत्तांशकादतः ॥
अर्धज्याग्रात्परियन्तं तदुत्क्रमगुणो भवेत् ।
दोःकोट्योस्तेकहीना त्रिज्या स्यादितरोत्क्रमः ॥
अर्धज्योत्क्रमवर्गैक्यपदं तद्धनुषो भवेत् ।
समस्तज्या तदर्थं तु तच्चापार्धे ऽर्धजीवका ॥
अर्धोत्क्रमसमस्ताभिर्ज्याभिश्चक्रं भवेदिह ।