आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 58, कुल 134 में से
संदर्भ में पढ़ें३२ गीतिकापादः ॥
अघनाद्भजेद्द्बितीयात् त्रिगुणेन घनस्य मूलवर्गेण ।
वर्गस्त्रिपूर्वगुणितश्शोध्यः प्रथमाद्घनश्च घनात् ॥५॥
प्रथमस्थानं घनसंज्ञम् । द्वितीयतृतीये अघनसंज्ञे । चतुर्थं घनसंज्ञम् ।
पञ्चमषष्ठे अघनसंज्ञे । एवमन्यान्यपि स्थानान्युक्तक्रमाद्विद्यानि । वर्गावर्गवि-
भागो घनविभागश्च युक्तिसिद्धत्त्वादिहाचार्येणानुपदिष्टः। अन्त्याद्घनस्थाना-
द्यथालब्धं घनं विशोधयेत् । पुनस्तस्य मूलमेकत्र संस्थाप्य पुनस्तद्घनमूलं
वर्गी कृत्य त्रिभिश्च निहत्य तेन शुद्धघनस्थानस्यादिभूतयोरघनस्थानयोर्द्वि-
तीयाद्भागमादघनस्थानात्फलं विभजेत् । द्वितीयमघनस्थानं विभजेदित्यर्थः ।
तत्र लब्धं फलं वर्गी कृत्य त्रिभिश्च निहत्य पूर्वस्थापितेन मूलफलेन च निहत्य
विहृतस्थानस्यादिभू तात्प्रथमाख्यादघनस्थानाद्विशोध्य तस्य फलस्य घनञ्च
शुद्धराशेरादिभू ताद्घनस्थानाद्विशोध्यपुनस्तत्फलं घनमूलाख्यं पूर्वस्थापिते
घने मूलाख्यफलस्यादिस्थाने पङ्किरूपेणस्थापयेत् । पुनर्मूलपङ्क्त्या पृथ-
क्स्थया वर्गी कृतया त्रिभिश्च निहतया शुद्धघनस्यादिभूतमघनस्थानं विभ-
ज्य लब्धं फलं वर्गी कृत्य त्रिभिश्च निहत्य पूर्वस्थापितमूलपङ्क्त्या च नि-
हत्य विहृतस्थानस्यादिभू तात्प्रथमाख्यादघनस्थानाद्विशोध्य फलस्य घनञ्च
शुद्धस्थानस्यादिभू ताद्घस्थानाद्विशोध्य तत्फलं घनमूलाख्यं पूर्वस्था-
पितघनपङ्क्तौ स्थापयेत् । पुनरप्येवं कुर्याद्यावत्स्थानावसानं । तत्रजाता घन
पङ्क्तिर्घनमूलफलं भवति । भिन्नेषु तु । अंशघनमूलराशौ खनमूलं छेदमूलहृते ।
इत्यनेन वेद्यम् । तथा भिन्नवर्गमूले च त्रिगुणेन घनस्य मूलवर्गेण भजेदित्य
नेन । एवं प्रथमं घनशोधनक्लभिहितं भवति । वर्गमूले च द्विगुणेन वर्गमूलेन
हरेदित्यनेन प्रथमं वर्गशोधनं भवति । घनकर्म लौकिके गणित उपयुज्यते
नतु कालक्रियागोलयोः ॥ त्रिभुजक्षेत्रस्य फलं पूर्वार्धेनाह ।
भा०-इकाई के स्थान से आरम्भ करके प्रत्येक तीसरे अंक के ऊपर एक एक
विन्दु रख कर राशि को कई एक अंशों में बांट लो, यह अंशसंख्या घनमू-
ल की अङ्कसंख्या होगी ।
बांइ ओर के पहिले अंश में जिस बड़ी से बड़ी संख्या का घन घट स-
कता हो उस को भाग की रीति के अनुसार दी हुई राशि की दाहिनी ओ-
र लिखो यही संख्या इष्ट घनमूल का पहिला अङ्क होगी पहिले अंश में से