सामग्री पर जाएँ
सर्वकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 119, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 119

[PageHeader] आर्यभटीये ८३ [/PageHeader]

ष्टज्ययेष्ट भुजज्यया निहत्य तद्भुजज्यासाधितेनेष्टस्वाहोरात्रार्धेन हरेत्। तत्र लब्ध-
मज्ञाङ्कलोदयप्राग्ज्या भवति। लङ्कायां तद्भुजाभागगतराश्युदयकालजाता प्राग्ज्या
प्रागपरमण्डलज्या । घटिकामण्डलज्येत्यर्थः । सा चापितोदयास्तूमितिर्भवति ।
एवं भुजाभागस्योदयप्रमाणांनयनम् । प्रतिराशिमानन्तु। इष्टराशेराद्यान्त्यभुजा-
ज्याभ्यां पृथग्राशिमानद्वयमानीय तयोरन्तरं कुर्यात् । तदिष्टराशेर्लङ्कोदयमानं
भवति । मेषादितस्तूलादितश्च क्रमेण भुजायाः प्रवृत्तिः । अतस्तत्र राश्युदयाश्च
क्रमेण भवन्ति। कन्यान्तान्मीनान्तच्चोत्क्रमेण भुजायाः प्रवृत्तिः । अतस्तत्र राश्युदया-
श्चोत्क्रमेण भवन्ति। अत्रैवं त्रैराशिकम् । यदि त्रिज्यया परमापसिद्धस्वाहोरात्रार्ध-
तुल्या कोटिर्लभ्यते तदेष्टज्यया कियतीतीष्टस्वाहोरात्रार्धगतेष्टकोटिर्लब्धिः । य-
दीष्टस्वाहोरात्रार्धे इयती कोटिस्तदा व्यासार्धे कियतीति व्यटिकामण्डलगतरा-
श्युदयज्यालब्धिः । अत्र प्रथमत्रैराशिके व्यासार्धं भागहारः । द्वितीये सगुणकारः
तयोर्गुणकारहारयोस्तुल्यत्वात्तदुदयं विना कर्म क्रियते । दिननिशोः क्षयवृद्ध्या-
नयनमाह।
भा०:--परमापक्रम साधित स्वाहोरात्रार्द्ध को इष्ट भुजज्या से गुणन कर,
उस भुजज्या से साधित इष्ट स्वाहोरात्रार्द्ध द्वारा भाग देवे भाग फल मेष
राशि से लङ्कोदय प्राग्ज्या होता है ॥ २५ ॥
इष्टापक्रमगुणितामक्षज्यां लम्बकेन हृत्वा या।
स्वाहोरात्रे क्षितिजा क्षयवृद्धिर्ज्या दिननिशोस्सा ॥२६॥
इष्टापक्रमज्ययाक्षज्या निहत्य लम्बके हृत्वा यल्लश्यते सा स्वाहोरात्रे स्वा-
होरात्रमण्डलनिष्पन्ना दिननिशोः क्षयवृद्धिर्ज्या क्षितिजा क्षितिजमण्डलादुत्प-
न्ना । क्षितिज्येत्यर्थः । अत्रैवं त्रैराशिकम् । यद्यवलम्बककोट्याक्षज्या भुजा तदा-
पक्रमकोट्या का भुजेति ज्यालब्धिः । सा स्वाहोरात्रनिषण्णा । अतस्तां त्रिज्यया
निहत्य स्वाहोरात्रेण विभजेत् । तत्र लब्धा चरदलज्या भवति । अत्रैवं त्रैराशि-
कम् । यदा स्वाहोरात्र इयती ज्या तदा व्यासार्धमण्डले कियतीतिव्यासार्धमण्ड-
ल्ज्यालब्धिः । चरदलाच्चापिताश्चरदलासवो भवन्ति । स्वदेशराश्युदयमाह ।
भा०:--इष्टापक्रमज्या से अक्षज्या को गुणनकर लम्बक से भाग दे, भाग
फल को, स्वाहोरात्रार्द्ध में स्वाहोरात्रमण्डल निष्पन्न दिन रात्र के क्षय वृद्धि
ज्याक्षितिजा, क्षितिज मण्डल से उत्पन्न क्षितिज होता है ॥ २६ ॥
उदयंति हि. चक्रपादश्चरदलहीनेन दिवसपादेन ।
प्रथमो ऽन्त्यश्चाथान्त्यौ तत्सहितेन क्रमोत्क्रमतः॥२७॥