सामग्री पर जाएँ
सर्वकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 104, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 104

६८ गीतिकापादः ॥
स्वस्तिकगत एवं तुल्य मध्य अपरस्वस्तिकगत होता है। तब मेष के मध्य
से तुला मध्यान्त-आधा उत्तर अपयान होता है और शेषार्द्ध दक्षिण से अप-
यान होता है । इसलिये मेष की आदि से अपक्रम लाने का संस्कार
होता है ॥ १ ॥
ताराग्रहेन्दुपाता भ्रमन्त्यजस्रमपमण्डलेऽर्कश्च ।
अर्काच्च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २॥
ताराग्रहाणां पाताश्चेन्दुपातश्चार्कश्च सदापमण्डले भ्रमन्ति। अर्काच्चमण्डलार्धे
ऽपमण्डले भूच्छाया सदा भ्रमति। शशिकुजादयश्च स्वे-स्वे विक्षेपमण्डले चरन्ति॥
विक्षेपमण्डलस्य संस्थानमाह ।
भा०:-तारा, ग्रह, चन्द्रमा, इनके पात और सूर्य सदा अपमण्डल में
भ्रमण करते हैं। सूर्य से मण्डल के आधे अपमण्डल में भूच्छाया सदा भ्रमण
करती है। चन्द्रमा, मङ्गल आदि अपने २ विक्षेपमण्डल में चलते हैं ॥ २ ॥
अपमण्डलस्य चन्द्रः पाताद्यात्युत्तरेण दक्षिणतः ।
गुरुकुजकोणाश्चैवं शीघ्रोच्चेनापि बुधशुक्रौ ॥ ३ ॥
स्फुटचन्द्रो यदापमण्डलस्थपातसमो भवति तदा चन्द्रोऽपमण्डले चरति ।
ततः क्रमेणोत्तरेण याति । पातात्त्रिराश्यन्तरे परमविक्षेपसममुद्गमनम् । पा-
तात् षड्राश्यन्तरे स्थितश्चन्द्रोऽपण्डले चरति । तत्र हि द्वितीयपातस्य स्थिति-
रुक्ता । तस्माद्द्वितीयपातात् क्रमेण दक्षिणतो याति । तत्रापि पातात्त्रिराश्य-
न्तरे परमविक्षेपसमं दक्षिणायनम् । एवं चन्द्राधारस्य विक्षेपमण्डलस्य संस्थान
मुदितम् । परमविक्षेपस्तु कार्धमित्युक्तं (दशगीतिकायाम् ८।) सार्धाश्चत्वारोंऽशा
इत्यर्थः ॥ गुरुकुजकोणाश्चैवम् । यथा मन्दस्फुटसिद्धश्चन्द्रस्स्वपातसमोऽपमण्डले च-
रति तथा गुरुकुजकोणाश्च स्वमन्दस्फुटे पातसमेऽपमण्डले चरन्ति । ततः क्रमे-
णोत्तरेण यान्ति । पातात्त्रिराश्यन्तरे मन्दस्फुटे परमविक्षेपसममुद्गमनम् । पा
तात् षड्राश्यन्तरे मन्दस्फुटेऽपमण्डले चरन्ति । ततः क्रमेण दक्षिणतो यान्ति ।
तत्रापि त्रिराश्यन्तरे परमविक्षेपसमं दक्षिणगमनम् । एवं गुरुकुजमन्दानामा-
धारभूतस्य विक्षेपमण्डलस्य संस्थानम् । शीघ्रोच्चेनापि बुधशुक्रौ । स्वशीघ्रोच्चे-
नाप्यपमण्डलादुदग्दक्षिणतश्च चरतो बुधशुक्रौ । अपिशब्दान्मन्दस्फुटवशाच्च ।
एतदुक्तं भवति । बुधशुक्रयोस्स्वमन्दफलं स्वशीघ्रोच्चे व्यस्तं कृत्वा, तस्मात्स्वपातं
विशोध्य विक्षेपस्साध्य इति । अतो मन्दफलसंस्कृते शीघ्रोच्चे स्वपातसमेऽपम-
ण्डले चरतः । ततः क्रमेणोद्गयातः । पातात्त्रिराश्यन्तरे शीघ्रोच्चे परमविक्षेपस-