आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 53, कुल 399 में से
संदर्भ में पढ़ेंगृह्णीयाते माणवकस्याऽप्युपसङ्ग्राह्याः । किं सदा ? नेत्याह—तदात्वे तस्यां
दशायाम् । अपर आह—तदा प्रभृति त उपसङ्ग्राह्याः । तुशब्दात्
समावृत्तेनापि ॥ १३ ॥
गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्ध-
स्तदधीना भिक्षा ॥ १४ ॥
यदा द्वितीयं तृतीयं वा वेदमधीयानस्य माणवकस्य गुरुसमवायो
भवति गुरवः समवेता भवन्ति, तदा भिक्षायामुत्पन्नायां य गुरुमिदानी-
मनुबद्धो माणवकः यतोऽधीते तदधीना भिक्षा, यच्च यावच्च लब्धं तत्तस्मै
निवेदनीयम् । (१)तदुक्तश्च विनियोगः ॥ १४ ॥
समावृत्तो मात्रे दद्यात् ॥ १५ ॥
कृतसमावर्तनो विवाहात्प्रागर्जितं मात्रे दद्यात् ॥ १५ ॥
माता भर्तारं गमयेत् ॥ १६ ॥
माता पतिं प्रापयेत् ॥ १६ ॥
भर्ता गुरुम् ॥ १७ ॥
(२) प्रापयेत् । माणवकस्य गुरुम्, माणवकार्जितं द्रव्यं तन्नामि
युक्तम् ॥ १७ ॥
धर्मकृत्येषु वोपयोजयेत् ॥ १८ ॥
धर्मकृत्यानि विवाहादीनि । तेषु वोपयोजयेत् । गुरोरभावे भर्त्ता, तदभावे
माता, सर्वेषामभावे समावृत्तस्स्वयमेव वा ॥ १८ ॥
कृत्वा विद्यां यावतीं शक्नुयात् वेददक्षिणामाहरेद्धर्मतो
यथाशक्ति ॥ १९ ॥
यावतीं विद्या कर्तुं शक्नुयात् वेदं वेदौ वेदान्वा तावतीं कृत्वा अधीत्य
गुरवे दक्षिणामाहरेत् दद्यात् । यथाशक्ति धर्मत उपलब्धां न्यायार्जिताम् ॥१९॥
धर्मत इत्यस्यापवादः—
विषमगते त्वाचार्य उग्रतः शूद्रतो वाऽऽहरेत् ॥२०॥
१. ततश्च विनियोगः इति. क. पु. २. सोऽपि गुरु प्रापयेन्माणवकस्य इति ख. पु.