आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 44, कुल 399 में से
संदर्भ में पढ़ेंपादोपसङ्ग्रहणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३३
(१)प्रत्यभिवादेऽशूद्रे' इति पाणिनीयस्मृतिः । तत्र (२)'वाक्यस्य टे' रि-
त्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य टेः प्लुतः । 'आयु-
ष्मान् भव सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशान्नाम्नश्च पश्चाद-
कारः । तथा च मनुः-
(३)आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥” इति ।
'आयुष्मान् भव सौम्य देवदत्त ३ अ' इति प्रयोगः । शम्भुर्विष्णुः
पिनाकपाणिश्चक्रपाणिरित्यादीनां नाम्नां सम्बुद्धौ गुणे कृते 'एचोऽप्र-
गृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ' इत्ययं विधिर्भवति । अन्ते
अकारः । (४) 'तयोर्र्वावचि संहितायाम्' इति यकारवकारौ च भव-
तः-शम्भा ३ व, विष्णा ३ व, पिनाकपाणा ३ य, चक्रपाणा ३ य,
इति । अत्र सूत्रे 'प्रत्यभिवादने चे'ति चकारस्यार्थं न पश्यामः ।
अपर आह—'अभिवादने प्रत्यभिवादने च प्लावन'मिति । अस्मि-
न्नपि पक्षे द्वन्द्वेनाभिहितत्वाच्चशब्दोऽनर्थक एव । अभिवादने च
शास्त्रान्तरे न क्वापि प्लुतो विहितः । तस्मादनर्थक एव चकारः ।
अनर्थकाश्च निपाता बहुलं प्रयुज्यन्ते ॥ १७ ॥
उदिते त्वादित्य आचार्येण समेत्योपसंग्रहणम् ॥१८॥
उदिते त्वादित्ये आचार्येण अध्ययनार्थं समेत्य वक्ष्यमाणेण विधिनोपसंग्रहण
कुर्यात् ॥ १८ ॥
सदैवाऽभिवादनम् ॥ १९ ॥
अन्यदा सर्वदा पूर्वोक्तप्रकारेणाभिवादनमेव । अयमनुवाद उत्तर-
विवक्षया ॥ १९ ॥
उपसंग्राह्य आचार्य इत्येके ॥२०॥
अभिवादनप्रसङ्गे सदैव उपसंग्राह्य आचार्य इत्येके मन्यन्ते ॥ २० ॥
१ पा सू ८. २. ८३ शूद्रभिन्नविषये प्रत्यभिवादे यद्वाक्य 'आयुष्मान् भव सौ-
म्य" इत्यादिरूप तस्य टेः प्लुतस्स्यात्, स चोदात्त इति सूत्रार्थः ।
२. पा. सू ८. २ ८२ ३. मनु. स्मृ २ १२५.
४. पा. सू ८ २. १०८. इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् इति सूत्रार्थः ।
आप० ध० ५